SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। पात्रापात्रविचारसारविरहो गच्छत्युदारात्मतां मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥१३४॥ समुद्रस्यापत्यं प्रथितमहिमामुदितभुवः खसा प्रालेयांशोस्त्रिनयनशिरोधामवसतेः । मुरारातेयोषित्सरसिरुहकिञ्जल्कनिलया तथापि श्रीः स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान् ॥१३५॥ चक्षुःश्रुतिवाग्धरणं लक्ष्मीः कुरुते जनस्य को दोषः । गरलसहोअरनाया अच्छरियं जं न मारेइ ॥ १३६ ।। जुत्तं किवणेण खहुं खणिऊण लविआ लच्छी। कन्हस्स वि अद्धङ्गी सा कीस परङ्गणे भमइ ।। १३७ ॥ (इति लक्ष्म्यन्योक्तयः ।) अथ सामान्यमेघान्योक्तयः। एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य । विश्वं सशैलकाननमाननमालोकते यस्य ॥ १३८ ॥ संप्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः । जलद त्वयि विश्राम्यति सृष्टिरियं भुवनलोकस्य ॥ १३९ ।। क्षणदृष्टनष्टतडितो निजसंपत्तेः पयोदनिवहेन । ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि ॥ १४० ॥ अपगतरजोविकारा घनपटलाक्रान्ततारकालोका । लम्बिपयोधरभारा प्रावृडियं वृद्धवनितेव ॥ १४१॥ कृतकृत्यंमन्यः स्यादरघट्टः क्षेत्रमात्रसेकेऽपि । अम्भोधरस्य तु धरां विधुरामुद्धर्तुमधिकारः ।। १४२ ॥ जलधर जलभरपटलैरुपहर संतोषमुद्धतं जगतः । नो चेदपसर दूरं हिमकरकरदर्शनं वितर ॥ १४३ ॥ प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः । शारदाप्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ १४४ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy