SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | निम्नं गच्छति निमगेव नितरां निद्रेव विष्कम्भते चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नयत्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥ १२८॥ नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि - र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः । आमूलं च गुणग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ १२९ ॥ उत्पादिता खलु स्वयं यदि तत्तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः । यद्यन्यसंजगवती च तदा परस्त्री तत्त्यागबद्धमनसः सुधियस्ततोऽमी ॥ १३० ॥ लक्ष्मीः सर्पति नीचमर्णवपयः सङ्गादिवाम्भोजिनी संसर्गादिव कण्टकाकुलपदा न कापि धत्तेऽन्ताम् । चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा धर्मस्थाननियोजनेन गुणिभिर्मासं तदस्याः फलम् || १३१ ॥ काचिद्वालकवन्महीतलगता मूलच्छिदाकारणं द्रव्येणार्जन पुष्पितापि विफली काचिच्च जातिप्रभा । काचिच्छ्रीः कदलीव भोगसुभगा सत्पुण्यबीजच्युता सर्वाङ्गे सुभगा रसाललतिकावत्पुण्यबीजाङ्किता ॥ १३२ ॥ लक्ष्मीरात्मगृहोद्भवेति तनया पात्रेण दातुः स्वयं लोकाद्वारिनिधेरिवात्र रुदतः सा गृह्यते जिष्णुना । चेत्पाणिग्रहणं विधाप्यत इयं त्यागेन मृत्वा यशः पुण्यैः क्वापि गतापि वत्सलतया व्यावर्तते तत्पुनः ॥ १३३ ॥ आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां विदधते मौग्ध्यं भवेदार्जवम् । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy