SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। हे लक्ष्मि क्षणिके स्वभावचपले धिङ्मूढपापाधमे __न त्वं धीरविशेषमिच्छसि किल प्रायेण दुश्वारिणि । ये ये पण्डितसत्यशौचनिरता ये चापि धर्मे रता___ स्तेभ्यो लज्जसि निघृणा गतभिये नीचो जनो वल्लभः ॥११७॥ भो लोका मम दूषणं कथमिदं संचारितं भूतले नोत्सेका क्षणिकातिनिघृणतरा लक्ष्मीरतिस्वैरिणी । नैवाहं कुलटा न चापि चपला नैवं गुणद्वेषिणी पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्यार्जनम् ॥ ११८ ॥ गुणिनां गुणमालोक्य निजबन्धनशङ्कया । राजलक्ष्मीः कुरङ्गीव दूरं दूरं पलायते ॥ ११९ ॥ तावन्माता पिता चैव तावत्सर्वेऽपि बान्धवाः । तावद्भार्या सदा हृष्टा यावलक्ष्मीः स्थिरा गृहे ॥ १२०॥ सर्वासामपि नारीणां मध्ये श्रीः सुभगा खलु । स्पृहयन्ति महान्तोऽपि यां स्वेच्छाचारिणीमपि ॥१२१॥ श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १२२ ॥ तावद्गुणगणकलितस्तावन्निजगोत्रमण्डनं परमम् । यावत्करिकर्णचला कमला न त्यजति सत्पुरुषम् ।। १२३ ॥ पद्मं पद्मा परित्यज्य खावासमपि या व्रजेत् । दिनान्ते सा कथं नाम परस्थानेषु सुस्थिरा ॥ १२४ ॥ या खसद्मनि पद्मेऽपि संध्यावधि विज़म्भते । इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम् ॥ १२५॥ धर्मः सनातनो यस्य दर्शनप्रतिभूरभूत् । परित्यजति किं नाम तेषां मन्दिरमिन्दिरा ।। १२६ ।। मत्वात्मनो बन्धनिबन्धनानि पुण्यानि पुंसां कमला किलासौ । तद्धंसनायेव धनेश्वराणां दत्ते मतिं दुर्बलपीडनाय ॥ १२७ ।। For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy