________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
१५५
श्रीमत्वकीयगुरुपादकजप्रसादा
न्मुक्तावली विरचिता कविकर्णदीपा । अस्तोकलोकपरिभूषितभूमिभागे
माणिक्यहेममणिमौक्तिकतोरणौघे ॥ १३ ॥ चञ्चच्चिरत्नवररत्नसुवर्णरूप्य
वैडूर्यवज्ररुचिरे कमलानिवासे । उच्चैर्मनोज्ञजिनमन्दिरराजमाने श्रीस्तम्भतीर्थवरमन्दिर इभ्यपूर्णे ॥ १४ ॥
युग्मम् । श्रीविजयानन्दगुरुपदृक्षोणीधरेन्द्रसिंहस्य ।। श्रीविजयराजसूरेरादेशाद्विरचिता चेयम् ॥ १५ ॥ संविदितलक्षणादिकनिखिलग्रन्थार्थसार्थपरमार्थैः । श्रीदानविजयवाचकप्रष्ठैः प्रविलोकिता चैषा ॥ १६ ॥ प्राचीनामलवृत्तमौक्तिकगणैश्चेतश्चमत्कारिभि
रेषानुक्रमलेखनेन मयका मुक्तावली निर्मिता । खस्थानं विनिवेशयन्गुरुलघुस्थित्या गुणे मौक्तिका
न्मालाकार इति प्रसिद्धिमतुलां नाप्नोति किं मानवः ॥१७॥ गुरुगुरुचरणसुवाङ्मयभक्तिप्राम्भारभरितनिजमनसा ।
प्रथमादर्श लिखिता प्रतिरेषा धीरविजयेन ॥ १८ ॥ यत्किंचिदस्यां लिखितं विहीनं मयाहि मात्रादिभिरर्थतो वा । विशारदैस्तत्परिशोधनीयं ग्रन्थान्तराणि प्रविलोक्य सम्यक् ॥ १९॥
कियदेतिकया च मया सज्जनजनरञ्जनाय जनितेयम् । सा दद्यादभ्युदयं सर्वाभीष्टार्थसिद्धिं च ॥ २० ॥ यावन्नन्दति मेरुर्यावजिनराजशासनं जगति । तावन्नन्दतु निपुणैरनवरतं वाच्यमानासौ ॥ २१ ॥
इत्यन्योक्तिमुक्तावलीग्रन्थप्रशस्तिः। समाप्ता चेयमन्योक्तिमुक्तावली ।
For Private And Personal Use Only