________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
काव्यमाला।
निःशेषवाङ्मयमहोदधिपारदृश्वा
सौभाग्यभाग्यपरभागनिवाससद्म ॥ २ ॥ तत्पट्टदेवकुञ्जरकुम्भस्थलभूषणैकमघवानः । समभूवन्क्षितितिलकाः सूरिश्रीविजयतिलकाह्वाः ॥ ३ ॥ तत्पट्टाम्बरभासनभासुरतरतरुणतरणिसंकाशाः । अभवञ्जगदानन्दा विजयानन्दाः परमगुरवः ॥ ४ ॥ निखिलजिनराजभाषितप्रवचनकलधौतकषपट्टाः । प्रशमसुधारससिन्धौ शारदवरविशदहिमकिरणाः ॥ ५ ॥ श्रीमत्सुधर्मजम्बूवज्रादिकहीरविजयसूरीशान् । ये स्मारयन्ति सुतरां गुणैः खकीयैः क्षितिख्यातैः ॥ ६ ॥
त्रिभिर्विशेषकम् । तेषां पट्टे संप्रति विजयन्ते विजयराजसूरीशाः । प्रतिबोधितभव्यजनाः सुधामुधाकारिवरवचसः ॥ ७ ॥ लब्ध्या श्रीगुरुगौतमगणधरतुल्यप्रधानमहिमानः । धिषणानिर्जितधिषणा जनताहितकल्पतरुकल्पाः ॥ ८ ॥
युग्मम् । तेषां सूरिवराणां राज्ये प्राज्ये च विजयिनि प्रष्ठे । श्रीविजयमानसूरियुवराजविराजमानविजयगणे ॥ ९॥
____ गीतिरियम् । किंच।
श्रीविजयानन्दगुरोः क्रमकजहंसेन हंसविजयेन । अन्योक्तिमञ्जमुक्तावली विदृब्धा परममोदात् ॥ १० ॥ सुललितसुवृत्तमुक्ता मुक्ताफलमालिकेव गुणयुक्ता । चतुरचयचारुचञ्चच्छुचिचित्रविचित्रचित्रकरी ॥ ११ ॥
___ युग्मम् । एषा कृता विक्रमराजराज्यात्तर्कत्रिशैलेन्दु१७३६मिते च वर्षे । मुक्तावली बाहुलदिव्यमासि दीपालिकापर्वदिने प्रशस्ते ॥ १२ ॥
For Private And Personal Use Only