________________
Shri Mahavir Jain Aradhana Kendra
१४६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
मुहुः कुर्वन्गीतं कुचकलशपीठोपरि लुठ
नये वीणादण्ड प्रकटय फलं कस्य तपसः || ३९॥ यत्पूर्वं पवनाग्निशस्त्रसलिलैश्चीर्ण तपो दुष्करं तस्यैतत्फलमीदृशं परिणतं यज्जातरूपं वपुः । मुग्धापाण्डुकपोलचुम्बनसुखं सङ्गश्च रत्नावले :
प्राप्तं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे ॥ ४० ॥ पृच्छे कः पुरुषः स भोगचतुरो दुस्तस्तपोऽङ्गीकृतमुग्रं तापकृतं सकर्णचटनं नानाविधं मेनका । सरुतडितं सयोषिति प्रियाम्बन्ति गल्लस्थले
कामिन्याधरपानयन्ति मनसा तेनापि डोलायते ॥ ४१ ॥ (?) स्पृशति शीतकरो जघनस्थलीमुचितमेव तदस्य कलङ्किनः । गुणवतस्तव हार न युज्यते परकलत्रकुचद्वयपीडनम् ॥ ४२ ॥ पतितानां संसर्ग त्यजन्ति दूरेण निर्मला गुणिनः । इति कथयन्जनीनां हारः परिहरति कुचयुगलम् ॥ ४३ ॥ सद्वृत्त सगुण महर्ष महाकान्ते कान्ताघनस्तनतटोचितचारुमूर्ते ।
आः पामरीकठिनकण्ठविलग्नभन
हा हार हारितमहो भवता गुणत्वम् ॥ ४४ ॥ असद्वृत्तो नायं न च खलु गुणैरेष रहितः
प्रिये मुक्ताहारस्तव चरणमूले निपतितः । गृहाणामुं बाले तब पततु कण्ठं पुनरसा
पायो नैवान्यस्तव हृदयतापोपशमने ॥ ४५ ॥ नैषा वेगं मृदुतरतनुस्तावकीनं विसोढुं
शक्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम् । रत्यभ्यासं विदधत इति प्राणनाथस्य कर्णोपान्ते गत्वा निभृतनिभृतं नूपुरं शंसतीव ॥ ४६ ॥
*
For Private And Personal Use Only