________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
काव्यमाला। कथयत इव नेत्रे कर्णमूलं प्रयाते
सुमुखि तब कुचाभ्यां वर्त्य पश्यावनी वा । स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं
तव तनुतरमध्यं भज्यते नौ न दोषः ॥२०॥ यथा यथा स्यात्स्तनयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् । अहो सहन्ते बत नो परोदयं निसर्गतोन्तर्मलिना ह्यसाधवः॥२१॥
बाले तव कुचावेतौ नियतौ चक्रवर्तिनौ ।
आसमुद्रकरग्राही देवो यस्य करप्रदः ॥ २२ ॥ निगदितुं विधिनापि न शक्यते सुभटता कुचयोः कुटिल वाम् । सुरतसंगतया प्रियपीडितौ बत नतिं न गतौ च्युतकञ्चकौ ॥ २३ ॥
अणुरायरयणभरियं कञ्चणकलसावि तरुणिथणजुअलम् । ता किं मुहम्मि कालं मसि मुद्दामयणरायस्स ॥ २४ ॥
अङ्गानि मे दहतु कान्तवियोगवह्निः ___ संरक्ष्यतां प्रियतमो हृदयस्थितो मे । इत्याशया शशिमुखी गलदश्रुवारि
धाराभिरुष्णमभिसिञ्चति हृत्पदेशम् ॥ २५ ॥ उपरिनाभिसरःपरिताडिता पटकुटीव मनोभवभूपतेः । विजयिनस्त्रिपुरारिविजी(जिगी)षया तव विराजति भामिनि कञ्चुकी२६।
यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी___ कपोले व्यासङ्गं कुचकलशमस्याः कलयति । ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं
स्वभावखच्छानां विपदपि विलासं वितरति ॥ २७ ॥ धनिनि जने चटु पटुतां जल्पतु रसना रसाशने लुब्धा ।
त्वमशनपाननिरस्तमस्तकचरणे कथं लुठसि ॥ २८ ॥ एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी
हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् । १. 'पश्यावरुद्धम्' इत्युचितं प्रतिभाति.
For Private And Personal Use Only