________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
१३९ अथ कण्टकारिकायाः। उचितं नाम नारिङ्गैया(?)केतक्यामपि कण्टकाः । रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ २४१ ।।
___ अथ शणस्य । भूर्जः परोपकृतये निजकवचविकर्तनं सहते । परबन्धनाय च शणः प्रेक्षध्वमिहान्तरं कीदृक् ।। २४२ ॥
अथ धत्तूरान्योक्तयः। छाया कापि न पल्लवेषु सुमनःस्तोमेषु नो सौरभो
द्गारः कोऽपि फलेषु कापि महती वार्ता न तां ब्रूमहे । धत्ते त्वां शिरसा तथापि हि हरस्त्यक्त्वा पुनः केतकी
तन्नूनं कनकदुमात्र भवता नाम्ना जगद्वञ्चितम् ॥ २४३ ॥ धत्तूर धूर्त तरुणेन्दुनिवासभूमौ । ___भाले पिशाचपतिना खलु निर्मितोऽसि । किं कैरवाणि विकसन्ति तमः प्रयाति __ चन्द्रोत्पलो द्रवति वार्धिरुपैति वृद्धिम् ॥ २४४ ॥ महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी
विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् । तनोति त्वत्सेवां न तु कनकवृक्ष त्वदपरः परस्तत्को नु स्याद्यदि न सुलभीभावमभजः ॥२४५॥
इति धतूरान्योक्तयः। अथ तृणान्योक्तयः। जीमूतोन्मुक्तमुक्ताफलकणतुलितस्थूलसूक्ष्मोदबिन्दु
श्रेणीपातैः प्रभूतैर्वियत इतइतो जातसेकातिरेका । किं च प्राचीमभीष्मोष्मकतपनमहादाहसंदोहरिक्ता
सूते यद्भूतधात्री तदिदमपि तृणं किं न वर्ण्य सकर्णैः ॥२४६॥
१. 'नारङ्गे' इति भवेत्.
For Private And Personal Use Only