SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। अथ यवासस्य । परवित्तव्ययं दृष्ट्वा खिद्यन्ते ह्यधमा जनाः । वर्षा वर्षति पर्जन्यो यवासोऽपि प्रणश्यति ॥ २२६ ।। अथ यवस्य । वीवाहादौ प्ररोहस्तव यव शिवकृन्मङ्गलं स्वस्तिकाद्यैः स""भूतः पितृणां दहनमुखगतो देवतानामभीष्टः । पाणौ त्वक्ष्मरेखा धनविभवकृते वैभवं किं स्तुमस्ते हस्ते बद्धः प्रशस्तः कथित इह जनैः शीतलोऽश्वप्रियश्च ॥२२७॥ अथ शालेः। शाखासंततिसंनिरुद्धमनसो भूयांस एवावनौ ___ विद्यन्ते तरवः फलैरविकलैरातिच्छिदः प्राणिनाम् । किंतु द्वित्रिदलैरलंकृततनोः शालेः स्तुमस्तुगतां दत्त्वा येन निजं शिरः सुकृतिना को नाम न प्रीणितः॥२२८॥ स्नेहं विमुच्य सहसा खलतां भजन्ते ये गाढपीडनवशान्न वयं तिलास्ते । अस्मानवेहि कलमानलमाहतानां येषां प्रचण्डमुशलैरवदाततैव ॥ २२९ ।। अथ तिलस्य । होहित्ति खलो मुणिऊण कारणं जन्त एहिं दिवसेहिम् । फलिओवि तेहिं मुक्को तिलविडवो सब्वपत्तेहिम् ॥ २३० ॥ खलसङ्गे परिचत्ते पिच्छहतिल्लेण जं फलं पत्तम् । मयणाहिसुरहिवासिय पहुसीसं पामियं तेण ॥ २३१ ॥ अथ मञ्जिष्ठायाः। देशत्यागं वह्नितापं कुट्टनं च मुहुर्मुहुः । रागातिरेकान्मञ्जिष्ठाप्यनुते किं पुनः पुमान् ॥ २३२ ॥ रागो हि दोषपोषाय चेतनारहितेष्वपि । मञ्जिष्ठा कुट्टनस्थानभ्रंशतापसहा भृशम् ॥ २३३ ॥ २७ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy