________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। कण्टिल्लो सकलाओ तुच्छफलो लहुअ पत्तपरिवारो। बाउलफलं अदिन्तो अन्नाणवि अडओ होसि ॥ २११ ।। अच्छउता सरसफलं दायव्वं पन्थियाणसउणाणम् । इयरतरुवारणत्थं बब्बूलो पिच्छ कण्टइओ ॥ २१२ ॥
(इति बब्बूलान्योकयः) अथ शाखोटस्य । कस्त्वं भोः कथयामि दैवहतक मां विद्धि शाखोटकं __ वैराग्यादिव वक्षि साधु विदितं कस्मादिदं भाषसे । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥ २१३ ।।
__ अथ चिश्चिण्याः। गुरुओवि न सेविजइ जो लहुपत्तेहिं होइ परिवरिओ । पत्तविसेसे चिञ्चिणि वकं चुकं फलं देइ ॥ २१४॥
अथ करीरान्योक्तयः। फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् । इतरे तरवो मन्ये करीर तव किंकराः ॥ २१५ ॥ किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः । येन वृद्धिं समासाद्य न कृतः पात्रसंग्रहः ॥ २१६ ॥ यद्यपि वसति करीरतरुर्मरुदचलस्य सदेशम् । तदपि न याति स जातिगुणादमरद्रुमगुणलेशम् ॥ २१७ ।। पत्रं न चित्रमपि निस्त्रप पान्थखेद
छेदक्षमं विषसमं तव मुग्ध दुग्धम् । धूर्तप्रपश्चितमहातरुकीर्तनेन
रे निष्फलस्त्वमसि कण्टकितः करीर ॥ २१८ ॥ हंहो मरुस्थलमहीरुह तावकीनं
संभावयामि महिमानममानमेव ।
For Private And Personal Use Only