________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
काव्यमाला।
किंशुक किं शुकमुखवस्कुसुमानि मधौ विकाशयस्यनिशम् । यस्यां जनोऽनुरागी सा गीरेतैः कदापि नोच्चार्या ॥ २०५॥ तइयच्चिय परिचत्ता तुज्झ पलासा पलाससउणेहिम् । कुसुमग्गमे वजन्ति हयासकसिणी कयं वयणम् ॥ २०६ ।।
(इति किंशुकान्योक्तयः) अथ पलाशपुष्परसस्य । मा गर्वमुद्रह विमूढ पलाशपुष्प
यत्षट्पदः श्रयति मामतिगन्धलुब्धः । रे मालतीविरहतो ज्वलदमिकल्पं त्वां मृत्युकारणमवेत्य समाश्रितोसौ ॥ २०७ ॥
अथ बब्बूलान्योक्तयः। तुच्छं पत्रफलं कषायविरसं छायापि ते कर्बुरा
शाखा कण्टककोटिभिः परिवृता मत्कोटकोटिस्थलम् । अन्यस्यापि तरोः फलानि ददतः कृत्वा वृतिं तिष्ठसि
रे बब्बूलतरो सुसङ्गरहितः किं वर्ण्यते तेऽधुना ॥ २०८ ॥ आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पागम
श्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणम् । बब्बूलद्रुम साधुसङ्गरहितस्त्वं तावदास्तामहो
अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ॥ २०९ ॥ खयमफलवान्भेदं छेदं स्थितेश्च विकर्षणं
कुहरपतनं बब्बूलोऽयं विषह्य वृतीभवन् । खल इव फलान्यन्यस्यापि प्रभूततराण्यहो
न दिशति सतां भोक्तुं द्युम्नान्वितः पटुकण्टकैः ॥ २१०॥ १. 'गात्रं कण्टकसंकटं प्रविरलच्छायाभृतः पल्लवा निर्गन्धः कुसुमोत्करस्तव फलं न क्षुद्विनाशक्षमम् । बब्बूलद्रुम मूलमेति न जनस्ते तावदास्तामहो अन्येषामपि शाखिनां फलवताम्' इत्यपि पाठान्तरम् .
For Private And Personal Use Only