SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । अथ खदिरान्योक्तयः । चन्दने विषधरान्सहामहे वस्तु सुन्दरमगुप्तिमत्कुतः । रक्षितं वद किमात्मसौष्ठवं वर्धिताः खदिर कण्टकास्त्वया ॥ १९७॥ पैदं तदिह नास्ति यन्न खदिरैः खरैरावृतं न तेऽपि खदिरा न ये कुटिलकण्टकैरावृताः । न ते कुटिलकण्टकाः किमपि ये न मर्मच्छिदस्तदुज्झत वृथा स्थिति बत सहध्वमध्वश्रमम् ॥ १९८ ॥ अथ वंशस्य । गाढग्रन्थिविसंस्थुलोऽपि कलयन्काठिन्यमप्यन्वहं छायामात्रविवर्जितोऽपि निशितैरप्यङ्कितः कण्टकैः । मिथ्यारूढजनप्रसिद्धिवचनैर्मुक्ताफलश्रद्धया धिङ्मूढेन मयैष वंशविटपी शून्याशयः सेवितः ॥ १९९ ॥ अथ वेतसस्य । : सर्वेषामपि वृक्षाणां वेत्त्येको वेतसद्रुमः । नम्रीभूयावति प्राणान्नदीपूररिपूदये ॥ २०० ॥ अथ किंशुकान्योक्तयः । १३३ For Private And Personal Use Only किंशुकाच्छ मा तिष्ठ शुक भाविफलाशया । बारङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ २०९ ॥ किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः । अदातर समृद्धेऽपि किं कुर्वन्त्युपजीविनः ॥ २०२ ॥ रक्तेन वा विरक्तेन किं पलाशेन पक्षिणाम् । यस्य पुष्पे न सौभाग्यं फले न मधुरो रसः ॥ २०३ ॥ त्यजकुसुमित किंशुकाभिमानं निजशिरसि भ्रमरोपवेशनेन । विकचकुमुममालतीवियोगाद्दहनधिया कुरुते त्वयि प्रवेशम् ॥ २०४ ॥ १. 'परम्' इति पुस्तकान्तरे.
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy