________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
काव्यमाला ।
इति ध्यात्वोपास्तं फलमपि तु दैवात्परिणतं
निदाने वृतोऽन्तः सपदि मरुता सोऽप्यपहृतः ॥ १८८ ॥ निर्गन्धं कुसुमं फलं कटुतरं छायापि ते कर्बुरा
बाह्यं कण्टकखपरैः परिवृतं निःसारमन्तर्वपुः । वृद्धिLध्रपरिग्रहाय किमहो वक्तव्यमस्मात्परं हंहो शाल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥१८९॥ छायान्वितोऽपि सरलोऽप्यतिविस्तृतोऽपि
कान्तप्रसूनविभवोऽप्यतिसुन्दरोऽपि । यत्त्वं फलेऽर्थिषु विसंवदसे प्रकाममस्पृश्यतां भजसि शाल्मलिवृक्ष तस्मात् ॥ १९० ॥
(इति शाल्मल्यन्योक्तयः) अथ निम्बान्योक्तयः। दुग्धेन सिक्तो निम्बोऽयमालवालं कृतं गुडैः । तथापि जातिवैचित्र्यात्कटुकत्वं न मुञ्चति ॥ १९१ ॥ शर्करासर्पिःसंयुक्तं निम्बबीजं प्रतिष्ठितम् । क्षीरघटसहस्रेण निम्बः किं मधुरायते ॥ १९२ ॥ निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते ।
यानि संजातपाकानि काका निःशेषयन्त्यमी ॥ १९३ ॥ यस्मादर्थिजनो मनोभिलषितं लब्ध्वा मुदा मेदुरः
सार्थ बन्धुजनैश्चकार विविधान्भोगान्विलासोद्धुरः । तं देवेन विवेकशून्यमनसा निर्मूल्य चूतद्रुमं ___ स्थाने तस्य तु काकलोकवसतिनिम्बः समारोपितः ॥ १९४ ॥ जइ फलभरेण नमिओ निम्बो घणछायकुसुमगन्धाढ्ढो । तो वायसाणजुग्गो नहु जुग्गो इयर पप्षीणम् ॥ १९५ ॥ जन्मन्तरंमि वसिओ निम्बतरू इक्खुवाडमब्भम्मि । ता किं न होइ गुलिओ संसम्गी जइ गुणा हुन्ति ॥ १९६ ॥
( इति निम्बान्योक्तयः) १. 'तूलोऽन्तः' इत्यपि पाठः.
For Private And Personal Use Only