________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। एतासु केतकिलतासु विकासिनीषु
सौभाग्यमद्भुततरं भवती बिभर्ति । यत्कण्टकैर्व्यथितमात्मवपुर्न जान
स्त्वामेव सेवितुमुपक्रमते द्विरेफः ।। १५४ धन्यासि केतकिलते तव किंचिदूनं
नूनं न चास्ति कनकाम्बुजगर्भगौरि । यत्सेवितानि शुभसौरभलोभलुब्धै
मत्तालिभिर्विगणितोत्कटकण्टकैस्त्वम् ॥ १५५ ।। उत्कटकण्टककोटीघर्षणघृष्टानि हृदि न चिन्तयति । असदृशरसविवशमतिर्विशत्यलि: केतकीकुसुमम् ॥ १५६ ॥
इति केतक्यन्योक्तयः । अथ पनसस्य। गरीयान्सौरभ्ये रसपरिचयेनार्चति सुधा __ मुधा मृद्वीकापि प्रथिमनि निमनः फलभरः । परार्थ कोशश्रीरिति पुलकितः कण्टकमिषादहो ते चारित्रं पनस मनसः कस्य न मुदे ॥१५७ ॥
. अथ कदल्याः । लाटीतरोरनुपकारि फलं विदित्वा ___ लज्जावशादुचित एव विनाशयोगः । एतत्तु चित्रमुपकृत्य फलैः परेभ्यः
प्राणान्निजाञ्झटिति यत्कदली जहाति ।। १५८ ॥ लहुओविहु सेविजइ जो गुरुपत्तेहिं होइ परिवरिओ । . पत्तविसेसे कदली अमियसमाणं फलं देइ ॥ १५९ ॥ .
अथ द्राक्षायाः । यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम् । असमञ्जसं तु दृष्ट्वा तथापि परिदह्यते चेतः ॥ १६० ॥
For Private And Personal Use Only