________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि
दण्डे कर्कशता मुखेऽतिमृदुता मित्रे महान्प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे __ यस्यैषा स्थितिरम्बुजस्य वसतियुक्तैव तत्र श्रियः ॥ १३० ।। यन्माता विष्णुनाभिः समजनि तनयो यस्य देवः खयंभू
लक्ष्मीर्यत्संश्रया भूर्यदपि करतले भारती संबभार । भानुर्यस्यास्ति मित्रं तदपि सरसिजं क्षीणमिन्दोमयूखै
स्वातुं नैवोत्सहन्ते गतसुकृतफलप्रान्तकाले सहायाः ॥ १३१ ।। प्रसारितकरे मित्रे जगदुद्योतकारिणि । किं न तैरेव लज्जा ते कुर्वतः पाणिसंवृतिम् ॥ १३२ ॥ लक्ष्मीसंपर्कजातोऽयं दोषः पद्मस्य निश्चितम् । यदेष गुणसंदोहधाग्नि चन्द्रे पराङ्मुखः ॥ १३३ ॥ उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति ॥ संकुचसि कमल यदयं हरहर वामो विधिर्भवतः ॥ १३४ ॥
अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य माभूवन्भङ्गुरा गुणाः ॥ १३५ ।। एते च गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति । यलक्ष्मीवसतेस्तव मधुपैरुपजीव्यते कोशः ॥ १३६ ॥
कामं भवन्तु मधुलम्पटषट्पदौघ__ संघट्टधुर्घरधनध्वनयोऽअखण्डाः । गायन्नतिश्रुतिसुखं विधिरेव यत्र भृङ्गः स कोऽपि धरणीधरनाभिपद्मः ॥ १३७ ।।
__इति पङ्कजान्योक्तयः। अथ नलिन्योक्तयः। रे पद्मिनीदल तवात्र मया चरित्रं
दृष्टं विचित्रमिव यद्विदितं ब्रुवे तत् ।
For Private And Personal Use Only