SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। छायापि ते न खुलभा फलमस्तु दूरे त्वं निष्फलो वरमहो सुखसेवनीयः ।। १०५ ॥ रे माकन्द मरन्दसुन्दरमिदं त्वन्मञ्जरीजृम्भितं __ मत्वा त्वामयमेति मुद्रितमुखः काकः कुरूपाग्रणीः । मान्यस्तद्भवता नचैकपिकवद्वर्णस्य सावर्ण्यतो नो वर्णाकृतिसाम्यसनिनि जने मुह्यन्ति मेधाविनः ॥ १०६ ।। कन्दे सुन्दरता दले सरलता वर्णेऽपि संपूर्णता स्कन्धे बन्धुरता फले सरसता कस्यापरस्येदृशी । एकस्त्वं सहकार खिलपथिकाधारः स्थितः सत्पथे ___ दीर्घायुभव साधु साधु विधिना मेधाविना निर्मितः ॥ १०७ ।। जातो मार्गपरिश्रमव्यपगमस्तापः प्रशान्ति गतः संपन्नं नच मञ्जरीपरिमलैर्घाणस्य संतर्पणम् । प्राप्ता तृप्तिरनश्वरैः फलभरैस्त्वत्तस्तदापृच्छयते गच्छामः सहकार सजन भज त्वं कल्पवृक्षश्रियम् ॥ १०८ ॥ छायामायासनाशे प्रगुणयसि नृणामुत्सवेषु च्छदानि प्रीतौ पुष्पंधयानां मधुपिकनिकरस्त्वागते कारकाणि । धर्मक्लान्तार्थिसार्थक्लमशमनविधौ पाकपिङ्गं फलौघं तत्त्वं विश्वोपकारार्पितविभवकृतानन्द माकन्दनन्द ।। १०९।। दृष्टे सति प्रविलसत्सहकारवृक्षे किं किंशुकेष्वभिरुचिं कुरुते मिलिन्दः । आखादिते सति सरोरुहनीरपूरे लीलालवालजलमिच्छति किं मरालः ॥ ११० ॥ वहसि बलिभुजां कुलानि मौलौ यदि सहकार तदत्र को निषेद्धा । परमुदयति पल्लवाञ्चलेषु स्फुरदलिभिस्तव सौरभप्रसिद्धिः ॥ १११ ॥ अर्काः केचन केचिदक्षतरवः केचिद्वयःक्ष्माभृतो निम्बाः केचन केचिदत्र विपिने वक्राः करीरद्रुमाः । २५ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy