SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar काव्यमाला। कति पल्लविता न पुष्पिता वा तरवः सन्ति न संततं वसन्ते । जगतीविजयाय पुष्पकेतोः ___ सहकारी सहकार एक एव ॥ ९९ ।। यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्रवालाङ्कुरो दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः । स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः __ सोत्कर्ष फलितो भृशं च नमितः कोऽप्येष चूतद्रुमः ॥१०॥ एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः प्रोद्यद्भिः फलपत्रपुष्पनिचयैश्चूतः स एकः परम् । यं वीक्ष्य स्मितवत्रमुद्गतमहासंतोषमुल्लासित स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थवजाः ॥१०१ ॥ सा तादृक्षनृभक्षलक्षविषमा लङ्का न टङ्कादपि ग्राह्यः काञ्चनभूभृदप्सु दधिरे रत्नानि रत्नाकराः । हा दैवेति वचो विना न ददते वज्राणि वज्राकरा. स्तेनाहं सहकार सारफलदं त्वामर्थितुं संगतः ।। १०२ ।। छाया फलानि मुकुलानि च यस्य विश्व माह्लादयन्ति सहकारमहीरुहस्य । आमृष्य तस्य शिखया नवपल्लवानि मनासि रे दवहुताश हताश कष्टम् ॥ १०३ ॥ कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् । सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते लोके येन रसालसालनिकरांस्त्यक्त्वा गुणान्स्तौमि ते ॥ १०४ ॥ यावत्फलोदयमुखः सहकार जात स्तावच्च कण्टककुलैः परिवेष्टितोऽसि । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy