________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अन्तःप्रतप्तमरुसैकतदह्यमान
मूलस्य चम्पकतरोः क्व विकाशचिन्ता । प्रायो भवत्यनुचितस्थितदेशभाजां
श्रेयः खजीवपरिपालनमात्रमेव ॥ ८४ ॥ केनापि चम्पकतरो बत रोपितोऽसि
कुग्रामपामरजनान्तिकवाटिकायाम् । यत्र प्ररूढनवशाखविवृद्धिलोभा
द्वोभग्नवाटघटनोचितपल्लवोऽसि ।। ८५ ॥ उद्यानपाल कलशाम्बुनिषेचनाना
मेतस्य चम्पकतरोरयमेव कालः । तस्मिंश्च धर्मनिहतेऽपि घनाम्बुनाथ
संवर्धितेऽप्युभयथा न तवोपयोगः ॥ ८६ ॥ एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी
संचारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः । धूमेनातिसुगन्धिनात्र विटपे दिक्चक्रमामोदयनामूलं परिदह्यते गुरुतरः कस्मै किमाचक्ष्महे ॥ ८७ ॥
(इति चम्पकान्योक्तयः ।) अथ सहकारान्योक्तयः । गाता कोकिल एव ज्ञाता पुनरेव सहकारः । यः पञ्चममुपगायति यस्यास्थिषु विपुलपुलकमुकुलानि ॥ ८८॥ यद्यपि दिशि दिशि तरवः परिमलमत्तालिपालिवाचालाः । तदपि स एव रसालः कोकिलहृदये सदा वसति ।। ८९ ॥ मञ्जरिभिः पिकनिकरं रजोभिरलिनः फलैश्च पान्थजनम् । मार्गसहकार नितरामुपकुर्वन्नन्द चिरकालम् ॥ ९० ॥ मधुसमयादतिपल्लवितः कस्तरुरिह न विशालः ।
यं रमयति कलकण्ठगणः स पुनर्जयति रसालः ॥ ९१ ।। १. 'अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः' इत्यपि पाठः,
For Private And Personal Use Only