________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्योक्तिमुक्तावली ।
श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने येषां गन्धगुणः सदापि वसति प्रायेण पुष्प श्रिया । प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातावदातात्मना
योऽयं गन्धगुणस्त्वया प्रकटितः कासाविह प्राप्यते ॥ ७६ ॥ मलओस चन्द्रणुचिय नइ मुह हीरन्त चन्दणदुमोहो । प भट्टं पिहु मलयाउ चन्दणं जायइ महग्घम् ॥ ७७ ॥
( इति चन्दनवृक्षान्योक्तयः 1)
Acharya Shri Kailassagarsuri Gyanmandir
अथ चम्पकान्योक्तयः ।
साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि । लज्जयसि मामिदानीं चम्पक भुवनाधिवासिभिः कुसुमैः ॥ ७८ ॥ कोपं चम्पक मुञ्च याचकजनैरायाचितस्त्वं सखे
माम्लासीः परितो विलोकय तरून्कस्तेऽधिरूढस्तुलाम् । कोपश्चेन्निहितस्तवास्ति हृदये धात्रे तदा कुप्यता
मित्थं येन सुवर्णवर्णकुसुमामोदाद्वितीयः कृतः ॥ ७९ ॥ सौभाग्यं कुसुमावलीषु विपुलं सौन्दर्यमर्यादया
पुष्पं चम्पक निर्मितं च विधिना स्वर्णातिवर्णाकृति । गन्धोऽप्येणमदाभिमानविजयी काठिन्यमन्तर्गतं
किं तेन चम्पक विषादमुरीकरोषि ।
ज्ञात्वा दोषपराङ्मुखो मधुकरः सङ्कं न धत्ते त्वया ॥ ८० ॥ रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः । कामिनस्तु जगृहुस्तदशेषं ग्राहका हि गुणिनां कति न स्युः ॥ ८१ ॥ यन्नादृतस्त्वमलिना मलिनाशयेन
विश्वाभिरामनवनीरदनीलवेषाः
११७
For Private And Personal Use Only
केशाः कुशेशयदृशां कुशलीभवन्तु ॥ ८२ ॥
:
सुवर्णवर्णेन वृणीष्व गौरवं सौरभ्यभारेण जगद्वशीकुरु |
इति क्षतिर्गन्धफलि स्फुटं तव प्राप्ता न यस्मान्मधुपेन संगतिः ॥ ८३॥