SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥ एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरमं ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते । माकन्दादपहृत्य पङ्कजवनादुद्भूय कुन्दोदरा दुब्राम्यविपगण्डमण्डलदलादाकृष्य कृष्यन्मनाः ॥ ६९ ।। यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥ ७० ॥ धिक्चेष्टितानि परशो परिशोचनीयं बालप्रवालमलयादिरुहदुहस्ते । निर्भिद्यमानहृदयोऽपि महाप्रभावः स त्वन्मुखं पुनरभीः सुरभीकरोति ।। ७१ ।। वास: शैलशिखान्तरेषु सहजः सङ्गो भुजङ्गैः सह प्रेडमारपयोधिवीचिभिरभूदुद्भूतिसेकक्रिया। जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ।। ७२ ॥ आमोदैस्तैर्दिशि दिशि गते(रमाकृष्यमाणां साक्षालक्ष्मी तव मलयज द्रष्टुमभ्यागताः स्म । किं पश्यामः सुभग भवतः क्रीडति क्रोड एव __व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ७३ ।। मूलं भुजङ्गैः शिखरं विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः । नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वभरैः समन्तात् ॥ ७४ ॥ भ्रष्टं जन्मभुवस्ततोऽम्बुधिपयःपूरेण दूरीकृतं लग्नं तीरवने वनेचरशतैतिं ततः खण्डितम् । विक्रीतं तुलितं खरोपलतले घृष्टं जनैश्चन्दनं वन्दन्ते कटरे(?)विपत्स्वपि गुणैः को नाम नो पूज्यते ॥७५॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy