SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। ११३ निर्यनिर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ ४८ ॥ भुक्तानि यैस्तव फलानि पचेलिमानि __ क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् । ते पक्षिणो जलरयेण विकृष्यमाणं पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ४९ ॥ विपन्न पग्रिन्या मृतमनिमिषैर्यातमलिभिः खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः । दशां दीनां नीते सरसि विषमग्रीष्मदिवसः कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि ॥ ५० ॥ शाखोटशाल्मलिपलाशकरीरकाद्याः शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः । युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मी सौरभ्यसंभवविधिस्तु हरेरधीनः ॥ ५१ ॥ पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति । पर्यालोच्य महातरो तव घनच्छायां वयं संश्रिता स्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ ५२ ॥ हिमसमयो वनवहिर्जवनः पवनस्तडिल्लताविभवम् । हन्त सहन्ते यावत्तावद्रुम कुरु परोपकृतिम् ॥ ५३ ।। ये पूर्व परिपालिताः फलभरच्छायादिभिः प्राणिनो विश्रामद्रुम कथ्यतां तव विपत्काले क ते सांप्रतम् । एताः संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ ५४ ॥ १. 'यावत्तत्क्षणमाश्रयन्ति गुणिनः क्लान्तिच्छिदे पादपं तावत्कोटरनिर्गतैरहिगणैर्दूर समुत्सारितः' इति पाठान्तरम् . For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy