________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। फलाढ्याः सर्वेषामुपकृतिकृतस्तेऽपि तरवो
यदेषां भस्म स्यात्तदपि मरुतस्ते पुनरघम् ॥ ९७ ॥ रुद्राङ्गं छगणानि(?) पङ्कजदृशामङ्गानि गाङ्गेयकं
ताम्बूलेन समागमं दृषदहो तूलं च कूलं दृशोः । कर्पूरेण सहाधिवासमसमं काष्ठानि कुम्भीभवन्पङ्कः शीर्षमवाप्य यद्विजयते सा पावकी साधना ॥ ९८ ॥
अथ प्रदीपान्योक्तयः । दैवादस्तं गते सूर्य त्वं चेल्लोकैः पुरस्कृतः । मा दीप मलिनोद्गारैः सद्गेहानि कलङ्कय ॥ ९९ ॥ दीपो वातभयान्नीतः कामिन्या वसनान्तरे । निरीक्ष्य कुचसौन्दर्यमकरः कम्पते शिरः ॥ १० ॥ तावद्दीपय दीपममुं यावद्रजनिविरामः । भानुश्चेदुदयाभिमुखस्तत्किं तव गुणधाम ॥ १०१ ।।
(इति प्रदीपान्योक्तयः ।) ___ अथ दावानलान्योक्तयः । यस्या महत्त्वभाजो भवन्ति गुणिनो मिता धनुर्दण्डाः । दहतस्तां वंशाली को वनवढे विशेषस्ते ॥ १०२ ॥ हे दावानल शैलाप्रवासिनः साधु शाखिनः । मुग्ध व्यर्थ त्वया दग्धाः प्रेरितेन प्रभञ्जनैः ॥ १०३ ॥ दुर्दैवप्रभव प्रभञ्जन जवादुद्भूतभूमीरुहा
नेतान्सत्वगुणाश्रयानकरुणं प्लष्यन्किमुन्माद्यसि । ब्रूमस्त्वां वनहव्यवाह यदमी दग्धार्घदग्धा अपि
द्रष्टव्यास्तव तु क्षणाद्विलयिनो नामापि न ज्ञायते ॥ १०४ ॥ अभ्युन्नतेऽपि जलदे जगदेकसार
साधारणप्रणयहारिणि हा यदेते । उल्लासलास्यललितं तरवो न यान्ति
हे दावपावक स तावक एव दोषः ॥ १०५ ॥
२३
For Private And Personal Use Only