SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमपि [च] सुलभमम्भो भवति पुरा जलधराभ्युदये ॥ ८४ ॥ एतस्मिन्मरुमण्डले परिचरत्कल्लोलकोलाहल क्रीडत्कुङ्कुमपङ्कमङ्कविलसनिःशङ्कमत्स्यव्रजम् । केनेदं विकसत्कुशेशयकुटीकोणकणषट्पद श्रेणीप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ।। ८५ ॥ माद्यदिग्गजदानलिप्तकरटप्रक्षालनक्षोभिता व्योम्नः सीग्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः । कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिन स्तस्याप्येकबकप्रचारकलुषं जातं यदन्तर्जलम् ॥ ८६ ॥ स्तोकाम्भःपरिवर्तिताङ्गशफरग्रासार्थिनः सर्वतो लप्स्यन्ते बकटिट्टिभप्रभृतयस्तल्लेषु साधुस्थितिम् । सद्यः शोषमुपागतेऽद्य सरसि श्रीसद्मपद्माकरे तस्मिन्पङ्कजिनीविलासरुचयो हंसाः क यास्यन्त्यमी ॥ ८७ ॥ रे पद्माकर यावदस्ति भवतो मध्यं पयःपूरितं तावच्चक्रचकोरकङ्ककुररश्रेणी समुल्लासय । पश्चात्त्वं समटरकोटचटुलत्रोणीपुटव्याहतित्रुट्यत्कर्कटकपरव्यतिकरैनिन्दास्पदं यास्यसि ॥ ८८ ।। अथ पनसरसः । क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्कः परिष्वज्यतां ___ मगुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिट्टिभः । भेकाः सन्तु बका वसन्तु चरतु खच्छन्दमाटिस्तटे हहो पद्मसरः कुतः कतिपयैह सैविना श्रीस्तव ॥ ८९ ॥ (इति तटाकान्योक्तयः ।) १. 'इदमति सुलभं चाम्भो' इत्यपि पाठः, For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy