SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ काव्यमाला। आजन्मस्थितयो महीरुह इमे कामं समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् । अन्ताहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदं विप्लवान् ॥ ७७ ॥ छायां प्रकुर्वन्ति नमन्ति पुष्प[ष्पैः] फलं प्रयच्छन्ति तटद्रुमा ये । उन्मूल्य तानेव नदी प्रयाति तरङ्गिणां क प्रतिपन्नमस्ति ॥ ७८ ।। अथ गङ्गायाः । यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति । तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ७९ ।। खच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा मूर्छन्मोहमहर्षिहर्षविहितस्त्रानाह्निकाहाय वः । भिद्यादुद्यदुदारदर्दुरदरीदैर्ध्यादरिद्रद्रुमद्रोहोद्रेकमदोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ।। ८० ॥ (इति सामान्यविशेषनद्यन्योक्तयः।) अथ तटाकान्योक्तयः । उद्दामाम्बुदनादनृत्यशिखिनां केकातिरेकाकुले सुप्रापं सलिलं मरुष्वपि तदा निस्तर्षवर्षागमे । भीष्मग्रीष्मऋतौ परस्परदरादालोक्यमानं दिशो दीनं मीनकुलं न पालयसि रे कासार कासारताम् ॥ ८१ ॥ हंसर्लब्धप्रशंसैस्तरलितकमलप्रस्तरङ्गैस्तरङ्ग नीरैरैन्तर्गभीरैर्बकनिकरकृतत्रासलीनैश्च मीनैः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतै र्भाति प्रक्रीडनाभिस्तव सचिवचलच्चक्रवाकस्तटाकः ॥ ८२ ॥ किं तेन संभृतवतापि सरोवरेण लोकोपकाररहितेन वनस्थितेन । ग्राम्या वरं तनुतरापि तडागिका सा __या पूरयत्यनुदिनं जनतामनांसि ॥ ८३ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy