________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। अन्नो कोऽवि सहावो समुद्दगम्भीरयाइ भावस्स । अमयं विसंहुआसो समयं विय जेण धरियाइम् ॥ ६७ ॥ जह गम्भीरो जह रयण निम्मरो जय निम्मलच्छाओ। ता किं विहिणा सो सर सवाणओ जलनिहीनकओ॥ ६८ ॥ खलजणसहसंगेणं पडन्ति सुहणाण मत्थए णत्था । दहवयणकयविरोहे रयणनिहीबन्धणं पत्तो ।। ६९ ॥ रयणेहिं निरन्तर पूरियस्स रयणायरस्स नहु गव्वम् । करिणो मुत्ताहलसंभएवि मयभिम्भला दिट्ठी ॥ ७० ॥
इति सामान्यसमुद्रान्योक्तयः। ___ अथ क्षीरसमुद्रस्य । माणिक्याकर पारिजातजनक श्रीकान्तलीलागृहं
पीयूषाङ्कनिवास वासवनदीवैदग्ध्यदीक्षागुरो । धिक्क्षीराम्बुनिधे तदेवमखिलं रूपं यदभ्यागतो दिग्वासा क्षुधितश्चराचरगुरुर्देवो विषं पायितः ॥ ७१ ॥
अथ सामान्यनद्यन्योक्तयः । कतिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते । तटिनि तद्रुमपातनपातकमेकं चिरस्थायि ॥ ७२ ॥ शरदि रविरश्मितप्ता बिभ्राणाः शोषमतिशयग्लपिताः । ज्वरिता इव लक्ष्यन्ते लङ्घनयोग्या महासरितः ॥ ७३ ॥ कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविश्रान्तिम् । वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घयासि ।। ७४ ।। आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यम् । नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः ।। ७५ ॥ मलयस्य महागिरेरपत्यं तदनु भ्रातृमती पटीरवृक्षैः । अपि सैव महोदधेः कलत्रं तटिनी मौक्तिकसूः किमत्र चित्रम् ॥ ७६ ।। १. 'तवेदम्' इति स्यात्. २. 'यास्यति जलभरकालस्तव च समृद्धिलघीयसी भविता' इति वा पाटः.
For Private And Personal Use Only