SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। अस्तंगते निजरिपावपि कुम्भयोनौ सकोचमाप जलधिन तु माद्यति स्म । गम्भीरतागुणचमत्कृतविष्टपानां शत्रुक्षयेऽपि महतामुचितं ह्यदः स्यात् ॥ ५० ॥ खच्छन्दं मन्दरादिभ्रमयतु मरुतस्ते च मुष्णन्तु सारं दुर्वारं वारिदाली पिबतु दहतु वा वह्निरौर्वः सगर्वः । यादःसंदर्भगर्भः पृथुतरगगनोत्सङ्गरऑस्तरङ्गै निमर्यादं समुद्र त्वयि चलति पुनर्विश्वमेतत्कुतस्त्यम् ॥ ५१ ॥ कृष्णाय प्रतिपादयन्खकमलां शीतद्युति शंभवे पीयूषं दिविषद्गणाय दिविषन्नाथाय दन्तीश्वरम् । धिग्धिक्प्रत्युपकारकातरधियः सर्वानिमानम्बुधे यैस्त्रातोऽसि न कुम्भसंभवमुनेण्डूषभावं भजन ॥ ५२ ॥ पातालं वसतिः परिच्छदपदं शेषादयः पन्नगा ___ जामाता जगदीश्वरो मधुरिपुः पत्नी नभोनिम्नगा । कन्यैका कमला धनानि मणयः पुत्रौ शशाङ्कामृतौ(ते) निःसामान्यमहो महार्णव तव श्लाघ्या कुटुम्बस्थितिः ॥ ५३ ॥ गम्भीरस्य महाशयस्य सहजस्वच्छस्य सेव्यस्य ते ___ सर्व साध्विदकूप(?) किंतु तदपि स्तोकं किमप्युच्यते । पात्रं दूरमधःकरोति गुणवद्यः सोऽपि तृष्णाक्लमः प्रौढ: प्रोन्मथने भवानपि पर्यत्तेन लजामहे ॥ ५४ ॥ हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे __नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो___ भारस्योद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ ५५ ॥ स्थानं कल्पतरोः सुधाजनिखनिश्चिन्तामणेः कोशभूः शय्यागारमजस्य मातृसदनं लक्ष्म्याः प्रपाम्भोमुचाम् । १, 'सवर्गः' इति वा. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy