SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं ___ क्षणादेनं ताम्यत्तिमिनिकरमापास्यति मुनिः ॥ ४३ ॥ इतः खपिति केशवः कुलमितस्तदीयद्विषा मितश्च शरणार्थिनः शिखरिपत्रिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवर्तकै रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ४४ ॥ द्यामारोहति वाञ्छति स्थगयितुं तेजोऽपि तेजस्विना मुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः । कांश्चिद्रागुपजीव्य तोयचुलुकान्सिन्धो भवत्संनिधेः __पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ४५ ॥ अये वारांराशे कुलिशकरकोपप्रतिभया दयं पक्षप्रेम्णा गिरिपरिवृढस्त्वामुपगतः । त्वदन्तर्वास्तव्याद्यदि पुनरयं वाडवशिखी प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ ४६ ।। किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहति त्रस्तः क्ष्माभृदमज्जदम्बुनिचये कौलीनपोताकृतिः । मेनाकोऽपि गभीरनीरविलसत्पाठीनपृष्ठोल्लस च्छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ४७ ॥ रत्नानि रत्नाकर मावसंस्था महोर्मिभिर्यद्यपि ते बहूनि । हानिस्तवैवेह गुणैस्त्विमानि भावीनि भूवल्लभमौलिभाजि ॥ ४८ ॥ कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर मावसंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्याप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४९ ॥ १, 'बटुः इति पाठः. २. एकेनेति शेषः, For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy