SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। अब्धेरणःस्थगितभुवनाभोगपातालकुक्षेः पोतोपायादिह हि बहवो लङ्घनेऽपि क्रमन्ते । आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं को नाम स्यादवरकुहरालोकनेऽप्यस्य शक्तः ॥ ३६॥ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकताः प्रवाललतिका शैवालमम्भः सुधा । तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरो दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ३७ ॥ एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता । इत्यादिप्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता अस्माभिर्न च दृष्टमत्र जलधौ मृष्टं पयोऽपि क्वचित् ॥ ३८ ॥ संख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः सत्यं वारिनिधे तथापि तदिदं चित्ते विधत्ते व्यथाम् । स्वच्छन्देन तिमिङ्गिला निजकुलग्रासं पुनः कुर्वते - यत्ते वारयितुं निजेऽपि विषये न खामिता विद्यते ॥ ३९ ॥ तृषं धरायाः शमयत्यशेषां यः सोऽम्बुदो गर्जति गर्जतूच्चैः । यस्त्वेककस्यापि न हंसि तृष्णां स किं वृथा गर्जसि नित्रपाब्धे ॥४०॥ कल्लोलैः स्थगयन्मुखानि ककुभाम_लिहैरम्भसा क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि । एतत्ते यदि घोरनक्रनिलयं खाएं विधास्यविधिः किं कर्तासि तदा न वच्मि तरलैस्तैरेव दुश्चेष्टितैः ॥ ४१ ॥ यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं रत्नरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम् । धिक् सर्व तत्तव जलनिधे यद्विमुच्याश्रुधारा___ स्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोऽसि ॥ ४२ ॥ २२ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy