SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५ अन्योक्तिमुक्तावली। अधः करोषि यद्नं मूर्ना धारयसे तृणम् । दोषस्तवैव जलधे रत्नं रत्नं तृणं तृणम् ॥ १८ ॥ अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः । तव वल्लभा वराक्यो वहन्ति वर्षासु सलिलानि ॥ १९ ॥ हेलोल्लालितकल्लोल धिक् ते सागर गर्जितम् । यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति कूपिकाम् ॥ २० ॥ निषेव्य सरितां पत्युस्तटीं पक्षिगणा अपि । यत्पिबन्ति सरस्तोयं सैव लज्जा महोदधेः ॥ २१ ॥ अब्धिना सह मित्रत्वे दारिद्यं यदि जायते । लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥ २२ ॥ अन्तः किंचित्किंचिन्मुक्तानामहह विममं वहसि । दूराद्दर्शयसि पुनः क्षारोगारं जडाधीशः ॥ २३ ॥ अस्ति जलं जलराशौ क्षारं तत्कि विधीयते येन । लघुरपि वरं स कूपो यत्राकण्ठं जनः पिबति ॥ २४ ॥ मथितो लवितो बद्धः पातो यद्यपि सांगरः । गर्जत्युच्चैस्तदप्येष जडात्मानो हि निस्त्रपाः ॥ २५ ॥ यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः । तदपि पुरंदरभीतक्ष्माधररक्षासु दीक्षितो जलधिः ॥ २६ ॥ यद्यपि खच्छभावेन दर्शयत्युदधिर्मणीन् । तथापि जानुदघ्नोऽयमिति चेतसि मा कृथाः ।। २७ ॥ खस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिरेषा । प्राप्तं मया सकलमेतदतः पयोधे यद्वारुणैर्जलचरैर्न विदारितोऽस्मि ॥२८॥ आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन महार्णवेन । १. 'दुरर्णवेन' इति पाठः, M- IN For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy