SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तथा दावानलान्योक्तिधूमान्योक्तिर्जनप्रिया । पवनान्योक्तयो ज्ञेया लब्धवर्णगणैर्मुदा ॥ ११ ॥ ___ अथ कायाधिकारपद्धतौ प्रथमं जलान्योक्तयः । शैत्यं नाम गुणस्तवैव भवतः स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजन्त्यशुचयः सङ्गेन यस्यापरे । किं वातः परमस्ति ते स्तुतिपदं त्वं जीवनं देहिनां __त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोढुं क्षमः ॥ १२॥ अखं त्वज्जमथाजभूस्तत इदं ब्रह्माण्डमत्राभव द्विश्वं स्थावरजङ्गमं तदखिलं त्वन्मूलमित्थं पयः । धिक् त्वां चौर इव प्रयासि शनकैनिःसृत्य जालान्तरे ___ बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ।। १३ ।। संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । खातौ सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणाः संसर्गतो यान्ति ते ॥ १४ ॥ खच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवच्छीतलं पुत्रालिङ्गनवत्तथा च मधुरं बालस्य संजल्पवत् । एलोशीरलवङ्गचन्दनरसं कर्पूरपारीमिलत्पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥ १५ ॥ (इति जलान्योक्तयः।) अथ समुद्रान्योक्तयः । नावज्ञया न वैदग्ध्यादुदधेर्महिमैव सः । यत्तीरपङ्कममानि महारत्नानि शेरते ॥ १६ ॥ रत्नरापूरितस्यापि मदलेशोऽस्ति नाम्बुधेः । मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः ॥ १७ ॥ १. 'ब्रह्माण्डमण्डात्पुनर्विश्वं' इति पाठ. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy