________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
षष्ठः परिच्छेदः ।
विलोकयन्ति ये खामिंस्त्वदीयं वदनाम्बुजम् । ते भवन्ति भवतुल्या विभूत्या पार्श्वतीर्थ ॥ १ ॥ यस्य दृष्टिसुधावृष्टिसिक्तः सर्पो बभूव च । नागराजो नागकुले स पार्श्वः श्रेयसेऽस्तु वः || २ ||
स्वस्तिकबन्धचित्रम् ।
भद्राय मम वामेय भव त्वममलद्युतिः । भवकाननमातङ्ग भविलोककजांशुमान् ॥ ३ ॥ सिद्धयेऽस्तु महावीर महावीरजगद्विभुः । यो विजित्य रणे रागाद्यरीन्वत्रे जयश्रियम् ॥ ४ ॥
बीजपूराकृतिचित्रम् |
देव त्वं संपदं धीर देयाः कल्याणसागर । देवेन्द्राचितत्सार देशनो ज्ञातजादर ॥ ५ ॥
रीत्यन्तरेण मुरजबन्धचित्रम् |
नित्यनम्र सुपर्वेश सुखाय शुभदायकः । वर्धमानवरोदार दादार सतां भव ॥ ६ ॥ श्रीमत्तपागच्छखच्छसुरशैलसुरदुमम् । विजयानन्दसूरीशं स्वगुरुं प्रणिदध्महे ॥ ७ ॥
अथ प्रतिद्वारवृत्तानि ।
अथाभिव्यक्तये नमः प्रतिद्वारान्यथाक्रमम् । स्पष्टं षष्ठपरिच्छेदे दक्षलक्षमुदां प्रदे ॥ ८ ॥ आदौ यादोनिवासोक्तिः पारावारवरोक्तयः । क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ॥ ९ ॥ स्फारकासारसाधूक्तिः पद्मपद्माकरोक्तयः । कूपकोक्तिः पावकोक्तिः कज्जलध्वजपद्धतिः ॥ १० ॥
१. प्रणिधानविषयीकुर्महे आयाम इत्यर्थः.
For Private And Personal Use Only
९३