________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
अये मुक्तारत्न प्रचल बहिरुद्योतय गृहा
नपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान् । किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥ ५३ ॥
(इति मौक्तिकान्योक्तयः ।) अथ सुवर्णस्य । हा हेम किं न तत्रैव विलीनो दहनोदरे । पाषाणशकलाधीनो यद्गुणग्रामनिर्णयः ॥ ५४ ॥ अमिदाहे न मे दुःखं न दुखं ग्रावघर्षणे । एकमेव महदुःखं गुञ्जया सह तोलनम् ॥ ५५ ॥
(इति सुवर्णन्योक्तयः ।) अथ पित्तलस्य । रे रङ्ग हेमकलया तुलितोऽसि नूनं ___ मान जहीहि किमु पश्यसि नो विशेषम् ।
खर्ण हि रत्नखचितं नृपशेखरेषु ____ त्वं पाप पामरवधूचरणेषु लीनः ।। ५६ ॥ धूलिमूलपदार्थसार्थजननी स्तम्भाधवष्टम्भदा
लेखाश्लेषकरी करीश्वरकरासङ्गिन्यवश्यं प्रिया । अग्रे गन्धमधोः शिशोः सुखकृतिः कालत्रयेऽपि स्थिरा
तस्माद्भूलिसमं न चास्ति किमपि क्षेप्या मुखे पापिनाम् ॥५७॥ इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक
वृन्दारकराजपरमगुरुभट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुनिष्यपण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां पृथ्वीकायिका
न्योक्तिनिरूपकः पञ्चमः परिच्छेदः ॥ ५ ॥
१. कस्तूरिकानाम गन्धधूलिः, षण्डनाम मधुधूलिः, तेन गन्धमधोरग्रे स्थिता। प्राधान्य ख्यापनार्थमेतत्कथनमिति.
For Private And Personal Use Only