SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। शिवश्रिये श्रीचरमो जिनेशो भूयादभिज्ञाननिभेन नूनम् । स्तम्बरमारातिरवाप्तवान्कि मृगेन्द्रतां यत्पदपर्युपास्तेः ॥ ८ ॥ श्रीवर्धमानः स्तासियै वर्धमानसुखप्रदः । सिद्धार्थसार्थसिद्धार्थवंशे मुक्तामणिप्रभः ॥ ९ ॥ चिदानन्दद्रुकन्दाय सर्वातिशयशालिने । नमः सर्वज्ञसङ्घाय तमःस्तोमांशुमालिने ॥ १० ॥ भाषा सुभाषां मे दद्याद्भरिभूषणभासुरा । सिन्दूरपूरन्यत्कारकारिहारिकराम्बुजा ॥ ११ ॥ श्रीइन्द्रभूतिं वसुभूतिभूतं पृथ्वीसुतं भूमिपतिप्रपूज्यम् । श्रीगौतमाख्यं गणधारिमुख्यं वन्दे लसल्लब्धिसुलक्ष्मिगेहम् ॥ १२ । शत्रुजयादिसत्तीर्थकरमोचनकारकम् । प्रतिवत्सरषण्मासजीवामारिप्रवर्तकम् ॥ १३ ॥ श्रीवर्धमानसर्वज्ञसमानमहिमाम्बुधिम् । श्रीहीरविजयाबानसूरीन्द्रं समुपास्महे ॥ १४ ॥ (युग्मम्) श्रीमत्सुसाधुश्रीवन्तनन्दनं जननन्दनम् । तपागणपयोजन्मपयो जन्म सुहृत्त्विषम् ॥ १५ ॥ सूरिश्रीविजयानन्दगुरुं गुरुगुणैर्गुरुम् । सौभाग्यभाग्यवैराग्यपरभागनिधिं स्तुवे ॥ १६ ॥ (युग्मम्) श्रीसोमसोमविजयाभिधवाचकनायकम् । रङ्गद्वैराग्यसद्रङ्गरञ्जिताङ्गमुपास्महे ॥ १७ ॥ ते सज्जनाः किल भवन्तु मम प्रसन्ना ये प्रीणयन्ति जगतीजनतामनांसि । १. चिद्रूप आनन्दश्चिदानन्दः, चिदानन्द एव दुर्द्धमश्चिदानन्दद्रुः, तस्य कन्दे मूलविशेषः. यद्वा = पानीयं ददातीति कंदो मेघः, चिदानन्दद्रौ कन्दश्चिदानन्दद्रुकन्दः तस्मै. 'कन्दोऽन्दे सूरणे सस्यभेदे' इति हैमानेकार्थकोशः. २. अयं श्रीशब्दो महत्त्वप्रः तिपादकः पूज्यनामादौ लोकेऽपि प्रयुज्यते. ३. 'जगती विष्टपे भूम्याम्' इति विश्वः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy