________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुात अहंकारो दर्पः स्मयो मत्सर ईयेत्यर्थः, माया प्रणिधिरुपधिनिकृति वंचना दम्भः कुटमभिसंधानं साठ्यमनार्जवमिन्यर्थः, लोभो रागो गार्थ्य-1 औदयिकाहारि.वृत्ती मिच्छा मूर्छाऽभिलाषो संगः कांक्षा स्नेह इत्यर्थः, माया लोभश्च प्रेम क्रोधो मानश्च द्वेषः, तत्र यदईदवर्णवादहेतुलिंगं अईदादिश्रद्धानविघातक दियो भावाः दर्शनपरीषहकारणं तन्मिथ्यादर्शनं, यन्मिध्यास्वभावप्रचितपरिणामं विशेषाद् विशुध्यमानकं सप्रतिघातं सम्यक्त्वकारणं सम्यग्दर्शनं, यन्मिध्या॥ 63 // स्वस्वभावचितं विशुद्धाविशुद्धश्रद्धाकारि तत्सम्यग्मिध्यादर्शनं, त्रिविधं दर्शनमोहनीयमुक्तं कर्म, चारित्रमोहनीयं द्विविध-कषायवेदनीयं नो कपायवेदनीयं च, द्वादश कषायाः अप्रत्याख्यान्यायाः क्रोधाद्याः, नव नोकषायाः हास्याश्यः, नारकतिर्यग्योनीसुरमनुष्यदेवानां भवनशरीरस्थिति-13 लाकारणमायुष्क, तांस्तानात्मभावान् नामयतीति नाम कर्मपुद्गलद्रव्यं, प्रति स्वं गत्यभिधानकारणं, जातिनाम पंचविधमेकेन्द्रियजातिनामादिकारण, शरीरनाम शरीरोत्पत्तिकारणं, तदंगोपांगनाम यथा शरीरनाम पंचविधौदारिकशरीरनामादिकार्येण साधितं यदेषामेवांगोपांगनिव्वत्तिकारणं तदंगोपांगनाम, तथाऽन्यत् शरीरनाम्नः कथं?, अंगोपांगाभावेऽपि शरीरोपलब्धेः, तरुच प्राक् शरीरत्रये नान्यत्र, बोंदिः तनुः शरीरमिति पर्यायः, अनेकता च जघन्यतोऽप्यौदारिकतैजसकामणबोंदिभावात् , वृंदं तु तद्गतांगोपांगसंघातभेदात्, संघातः पुनरेकैकांगादेरनन्तपरमाणुनिर्वृत्तत्वादिति / तथा सामायिकादिचरणक्रियामिद्धत्वात्सिद्धः, तथा जीवादितत्त्वबोधाद् बुद्धः, तहा बाह्याभ्यन्तरप्रन्थभेदनेन मुक्तत्वान्मुक्तः, तथा प्राप्तव्यप्रकर्षप्राप्ती परि:-सर्वप्रकारनिर्वृत्तः परिनिर्वृतः, संसारान्तकारित्वादन्तकृत् , एकान्तेनैव शारीरमानसदुःखप्रहीणाः सर्वदुःखपहीणा इति, उक्तः क्षायिकः / 'से कितं खओवसमिए?, खओवसमिए दुविहे पण्णत्ते, तं०-खओवसमे य खओ बसमनिष्फण्णे य, तत्र // 63 // क्षयोपशमश्चतुणों घातिकर्मणां, केवलज्ञानाप्रतिपन्नकानां ज्ञानावरणदर्शनावरणमोहनीयांतरायाणां श्योपशमः, ण मिति पूर्ववत् , इह चोदार्णहास्य क्षयः अनुर्णिस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह-औपशमिकोऽप्येवंभूत एव,न, तत्रोपशमितस्य प्रदेशानुभवतोऽप्यवेदनादस्मिंश्च TH For Private and Personal Use Only