SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनु० | द्रव्यनाम गुणनाम पर्यायनाम, एतानि प्रायो प्रथत एव भावनीयानि, नवरं द्रव्यगुणपर्यायस्वरूपं, द्रव्यं धर्मास्तिकायादि, गुणा गत्यादयः,181 विनाम हारि.वृत्तीला तद्यथा-गतिगुणो धर्मास्तिकायः स्थितिगुणोऽधर्मास्तिकायः अवगाहगुणमाकाशं उपयोगगुणा जीवा वर्तनादिगुणः कालः पुद्गलगुणा रूपादयः, तुनामच | पर्यायास्त्वमीषामगुरुलघव: अनंताः, आह-तुल्ये द्रव्यत्वे किं पुद्लास्तिकायगुणादीनां प्रतिपादनं न धर्मास्तिकायादिगुणादीनां, IN का(यथा) पुद्गलानामिन्द्रियप्रत्यक्षविषयतया तस्य तद्गुणानां च सुप्रतिपादकत्वं न तथाऽन्येपामिति, इह च वर्ण: पंचधा कृष्णगील-18| लोहितकापोतशुक्लाख्यः प्रतीत एव, कपिशादयस्तु संसर्गजा इति न तेषामुपन्यासः, गंधो द्विधा-सुरभिर्दुराभिश्न, तत्र सीमुख्यकृन् सुराभः दोर्मुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टग्रह इति संसर्गजत्वादेव नोक्तः, एवं रसेष्वपि संसर्गजानभिधानं वेदितव्यं, रस: पंचविधस्तिक्तकटुकषायाम्लमधुराख्यः, श्लेष्मादिदोषहन्ता तिक्तः वैशद्यच्छेदनकृत्कटुः अन्नरुचिस्तंभनकर्मा कषायः आश्रवणक्लेदनकृदम्लः हादनबृहन्मधुरः, लवणः संसर्गजः, स्पर्शोऽष्टविधः स्निग्धरूक्षशीतोष्णलघुगुरुमृदुकठिनाख्यः, संयोगे सति संयोगिनां बन्धकारण स्निग्धः तथैवाबन्धकारणं रूक्षः वैशद्यकृत्सुमन:स्वभावः शीतो मार्दवपाककृदुष्णः प्रायस्तिर्यगूर्ध्वगमनहेतुर्लघुः अधोगमनहेतुर्गुरूः संनतिलक्षणो मृदुः अनमनात्मकः कठिन:, संस्थानानि संस्थानानुपूळ पूर्वोक्तानि, पर्यायानां त्वेकगुणकालकादि, तत्रैकगुणकालकस्तारतम्येन कृष्णकृष्णतरकृष्णतमादीनां यत आरभ्य प्रकर्षवृत्तिः, द्विगुणकालकस्तु ततो मात्रया कृष्णवरः, एवं शेषेष्वपि भावनीय, यावदनंतगुणकृष्ण इति, तत्पुनर्नाम | सामान्येनैव त्रिविधं प्राकृतशेलीमधिकृत्य, स्त्रीलिंगादिनाम्नां उदाहरणानि प्रकटार्थान्येव, ‘से तं तिणामे' ति / 'से किं तं चउनामे' त्यादि, (124-112) तत्राऽऽगमेन पद्मानि पयोसि, अत्र 'आगमः उद्नुबंध: स्वरादन्त्यात्परः' आगच्छतीत्यागमः, आगम उकारानुबंधः स्वरा-16 कदंत्यात्परो भवति, सिद्धं पद्मानीत्यादि, सेतं आगमेणं, लोपेनापि ते अत्र इत्यादि, अनयोः पदयोः संहितायां 'पदात्परः पदान्ते लोपमकार' SOMEOSAMACHAR For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy