SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagersuri Gyarmandie NCCO श्रीअनुशामित्यादि, शब्दप्रधानत्वात् शब्दादयः शब्दनयाः,शब्दमर्येऽन्यथावस्थितं नेच्छन्ति, शब्देनार्थ गमयन्तीत्यर्थः, आद्यास्तु अर्थप्रधानत्वादर्थनयाः,यथा 18नये वसति हार.वृत्ताला कथंचिच्छब्दनार्थोऽभिधीयते इति, अर्थेन शब्द गमपन्तीति, अतोऽन्वर्थप्रधानत्वात् त्रयाणां शब्दसमभिरूद्वैवम्भूतानां प्रस्थकार्थाधिकारज्ञः दृष्टान्तः प्रस्थकः, तद्व्यतिरिक्तो ज्ञाता तल्लक्षण एव गृह्यते, भावप्रधानत्वाच्छब्दादिनयानां, यस्य वा बलेन प्रस्थको निष्पद्यते इति, स चापि प्रस्थक-18 ज्ञानोपयोगमन्तरेण न निष्पयत इत्यतोऽपि तज्ज्ञोपयोग एव परमार्थतः प्रस्थकमितिच, अर्मापां च सर्ववस्तु स्वात्मनि वर्तते नान्यत्र, यथा || जीवे चेतना, मेयस्य मूर्त्तत्वादाधाराधेययोरनर्थान्तरत्वाद्, अर्थान्तरत्वे देशादिविकल्पैर्वृत्त्ययोगात्, प्रस्थकश्च नियमेन ज्ञानं तत्कथं काष्ठभाजने वर्तेत ?, समानाधिकरणस्यैवाभावादतः प्रस्थको मानमिति वस्त्वसंक्रमादपपयोग इत्योधयुक्तिविशेषयुक्तिस्तु प्रतीततन्मतानुसारतो वाच्येति, तदेतत्प्रस्थकदृष्टान्तन / से किं तं वसहिदृष्टान्तेन, तयथा नाम कञ्चित्पुरुष पाटलीपुत्रादौ वसंतं कश्चित्पुरुषो वदेत्-क भवान् वसतीति, अत्रैव नयमतान्युच्यन्ते, तत्र विशुद्धो नैगमो भणति-लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकत्वाल्लोकादनन्तरत्वात् (लोकवास ). व्यवहारदर्शनात् , एवं तिर्यग्लोकजम्बूद्वीपभारतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीय, एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरस्य नेगमस्य वसन् वसति, तत्र तिष्ठतीत्यर्थः, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात् , लोके च नेह वसति प्रोषित इति व्यवहारदर्शनात् , संग्रहस्य तिष्ठन्नपि संस्तारकोपगतः-स्तारकारूढः शयनक्रियावान् वसति, स च नयनिरुक्तिगम्य एक एव, ऋजुसूत्रस्य येवाकाशप्रदेशेष्वगाढस्तेषु वसति, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् तत्रावस्थानादिकमुक्तं, अन्वर्थपरिप्रापितत्वं च पूर्ववत् , त्रयाणां शब्दनयानामात्मनो भावे वसति, स्वस्वभावाऽनपोहेनैव तत्र वृत्तिकल्पनात् तदपोहे स्वेतस्यावस्तुत्वप्रसंगादिति, तदेतत् वसतिदृष्टान्तेन // ' से 14 // 106 // किं त' मित्यादि, अथ किं तत्प्रदेशदृष्टान्तेन?, प्रकृष्टो देशः प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तस्तेन, नयमतानि चिन्त्यन्ते, तत्र | For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy