________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
अनेकान्तवादप्रवेशः
यितव्यम्, वस्तुतः प्रदत्तोत्तरत्वात् इति । अलं
विस्तरेण वचसाम् ।। ३ ॥
इति सामान्यविशेषोभयरूपैकवस्तुवादः ।। ३ ।। ( ४ ) यच्चोक्तम्- 'एवमभिलाप्यानभिलाप्यमपि विरोधबाधितत्वादेवानुद्द्द्घोष्यम्' इत्यादि, तदप्ययुक्तम्; अन्यथा, व्यवहारोच्छेदप्रसङ्गात् । तद्यदि एकान्तेनैवानभिलाप्यमभ्युपगम्यते, कथं तर्हि शब्दविशेषादर्थविशेषप्रतीत्यादिः ? दृश्यते च 'अनलाद्यानय' इत्युक्ते विनीतानां धूमध्वजादौ प्रवृत्तिः ।
स्यादेतद्, असौ शब्दाद्विकल्पं प्रतिपद्यते, तस्माच्च दृश्यविकल्प्याऽर्था( ०पार्था० )वेकीकृत्य प्रवर्तत्ते 1
१. अत्रान्ये ज्ञापकश्लोकाः - समानेतरबुद्धिश्चेत्यादिरूपा दश । इति सामान्यविशेषोभयवस्तुवादटिप्पनकम् ।। ३ ।। २. विरोधासिद्धेस्तदसिद्धिश्चाभिलाप्यानभिलाप्यस्यैव प्रमाणसिद्धत्वात् तथैवार्थक्रियोपलब्धेरिति शेषः । ३. अभिलाप्यानभिलाप्यतां विहाय । ४. आदिशब्दात्प्रवृत्तितत्समासादननिवेदनपरिग्रहः । ५ तथाविधक्षयोपशमयुक्तानां । ६. अन्यापोहाभिधायकाः शब्दा इति कृत्वा शब्दादन्यापोहमन्याभावः प्रतिपद्यन्ते । ७. अन्याभावबोधात् । ८. स्वलक्षणसामान्यलक्षणौ ।
For Private and Personal Use Only