________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७
अनेकान्तवादप्रवेशः बुद्ध्यऽभिधानजननस्वभावस्त्वितरः, इति यथोक्तसंवेदनाभिधानसंवेद्याभिधेया एव विषादयः, इति प्रतीतमेतद्; अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि द्वयमप्युभयरूपं तथापि विषार्थी विष एव प्रवर्त्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविनाभूतत्वात्, न तु मोदके, तत्समानपरिणामाविनाभावाभावात् तद्विशेषपरिणामस्य, इति । अतः प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदनैव, इति ।
एतेन 'विषे भक्षिते मोदकोऽपि भक्षितः स्याद्' इत्याद्यपि प्रतिक्षिप्तमवगन्तव्यम्, तुल्ययोगक्षेमत्वाद्, इति ।
यच्चापरेणाप्युक्तम्-'सर्वस्योभयरुपत्वे तद्विशेषनिराकृतेः' इत्यादि-तदपि कूटनटनृत्तमिवाभाविताऽनुष्ठानं न विदुषां मनोहरम्, इत्यपकर्ण
भवतो धीध्वनी स समानपरिणामः । यतः खलु घटादिष्वेव घटः शरावमित्यादिविशेषण भवतो धीध्वनी स त्वितरः ।
१. सामान्यविशेषरूप । २. तथा हि सत् सदिति विषादयः संवेद्यन्तेऽभिधीयन्ते च, तथा विषं मोदक इत्येवं चेति प्रतीतमिदम् । ३. आदिपदादभिधानम् । ४. विषं मोदकश्च । ५. सामान्यविशेषरूपम् । ६. विष । ७. विष । ८. मोदक । ९. विष । १०. पूर्वोदितेन ग्रन्थेन । ११. जैनदर्शनभावार्थपरिणामशून्यत्वेन ।
For Private and Personal Use Only