________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ प्रास्ताविकम् ॥
इदं प्रकरणं परकृपालुश्रीमदाचार्यवर्यश्रीहरिभद्रसूरिभिः स्वयं विनिर्मीतानेकान्तजयपताकाख्ये शब्दार्थगभीरग्रंथमहार्णवेऽवगाहितुमशक्तानां जिज्ञासूनां प्रतनुपोततुल्यं विनिर्मीतम्-इति तु सुनिश्चितं विपश्चिताम् । सटिप्पनकं शोधितं मुद्रितमस्माभिः । टिप्पनकस्य के नामाचार्यवर्या निर्मितारः ? इति नैवाहं सम्यग्जानामि । जानन्ते ये केचिद् महाशयाः, तेभ्योऽवगच्छन्तु जिज्ञासवः ।
श्रीमद्हरिभद्रसूरीणां सत्तासमयः विक्रमीयशतकं षष्ठम् । ये तूपमितिभवप्रपञ्चकथोपसंहारे विन्यस्तानि श्रीसिद्धर्षिसूरिभिः पद्यानि विलोक्य नवमे शतके सत्तां व्यवस्थापयितुं संशंसन्ते, तैर्विलोक्या श्रीमदिन्द्रदिन्नसूरीणां कुवलयमालाकथापिठिका, यतःते संजाताः सप्तमे शतके, स्वमुखेनैव स्वसत्तासमयः समरादित्यचरितप्रशंसा च कृता ।
श्रीमद्हरिभद्रसूरिभिरनेकग्रन्था विनिर्मिताः, तेषां उपलब्धसंभवित-मुद्रितानां सामन्यतः टीप्पनकमस्ति मत्पार्थे, किंतुविस्तारभयान्न वितन्यते इह प्रसङ्गमुपलभ्योपढौकयिष्ये कदाचिद् ।
श्रीमदाणन्दसागरसूरिभिर्विश्राणितेन एकेनैव पुस्तकेन संशोधितं पुस्तकमिदम् । तेषां सूरीवराणामुपकृतेः स्मरामि, शोधनमुद्रणदोषाणां च क्षमा याचे विद्वद्भयः । पाटण
विदुषामनुचरः क्षेत्रपालपाटके
प्रभुदासः
For Private and Personal Use Only