________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः
धर्मधर्मिरूपत्वाद् । धर्मधर्मिणोश्च भेदाभेदस्य प्रतिपादितत्वाद् । इति कृतं विस्तरेण । किञ्च-न च एकदा वस्तुवस्त्वन्तरापत्तिलक्षणो विरोधः य उच्यते परैश्छायातपयोर्वत्, शीतोष्णवत् सुखदुःखवद् वा, इति । कुतोऽसमानत्वात्, नहि छायातपादिवत्प्रतिनियततया इतरेतराननुविद्धाः सदसदादयः, तद्वत्केवलानुपलम्भात्, तथास्वभावत्वात्, तथानुभवसिद्धेः, इति। छाया आतपानुविद्धा न भवति, इति विरोधकल्पनायामपि कः प्रसङ्गः सदसदादिषु ? न हि 'अणुरचेतनः' इति ज्ञानेऽपि तद्वत्तद्विरोधाभिधानं युक्तम्, स्वभावभेदोपपत्तेः।
यच्चोक्तम्-'आत्मात्मीयदर्शनमेव मोहः' इत्यादि, अत्राभिष्वङ्गपूर्वकं सर्वथा स्थैर्यवासनागर्भमात्मा
१. शीतोष्णस्पर्शयोः स्वद्रव्यादिरूपेण सत् परद्रव्यादिरूपेण चासदित्युक्तम्। २.वस्तुनोऽनेकत्वाभ्युपगमे वस्तुनो वस्त्वन्तरापत्तिर्विरोधः । ३. सदसदादयो नहि छायातपादिवत् । न छाया नातपादिसदृशाः। ४. यतः सत्त्वं विना न असत्त्वम्, असत्त्वं च सत्त्वं विना नेति नियमेन मिथोऽनुविद्धाः । ५. चेतनत्वविरोधाभिधानं । ६. तयोरणुज्ञानयोः । ७. वासना-आश्रयणा ।
For Private and Personal Use Only