________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
दशरथः—(सप्रश्रयम् ।) भगवन्विश्वामित्र, कच्चित्कान्तारभाजां भवति परिभवः कोऽपि शौवापदो वा __ प्रत्यूहेन क्रतूनां न खलु मखभुजो भुञ्जन्ते वा हवींषि । कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तु__ यत्संप्राप्तोऽसि किं वा रघुकुलतपसामीदृशोऽयं विवर्तः ॥ २५ ॥ विश्वामित्र:-(विहस्य ।) जनयति त्वयि वीर दिशां पतीनपि गृहाङ्गनमात्रकुटुम्बिनः । रिपुरिति श्रुतिरेव न वास्तवी प्रतिभयोन्नतिरस्तु कुतस्तु नः ॥ २६ ॥
भवः कोऽप्यनिर्वचनीयोऽस्ति । शौवापदो वाभिभवोऽस्ति । अथवा क्रतूनां यज्ञानां प्रत्यूहेन विघ्नेन मखभुजो देवा हवींषि हवनीयद्रव्यं घृतादि न खलु भुञ्जते न वा भक्षयन्ति खलु । जिज्ञासामाह-अयं नखलुशब्दो वितर्क वा । वसुमती पृथ्वी दक्षिणा यस्य तादृशः सप्ततन्तुर्यज्ञो वान्तर्मनसि वर्तते ।। किमर्थमित्यपेक्षायामाह-कर्तुमिति । अत्र कर्तुमित्यस्यापेक्षया यज्ञस्य यद्यपि कर्मत्वं तथा चानभिहिते कर्मणि द्वितीयायां सप्ततन्तुमिति युज्यते । तथापि वसतीति प्रधानक्रियया प्रथमसंबन्धात्तदपेक्षया यज्ञस्य कर्तृत्वेऽभिहिते कर्तरि प्रथमैव भवति । प्रधानक्रियान्वयस्याभ्यर्हितत्वादित्यवधेयम् । तथा चाचार्यकारिकाप्यत्र-'यदेवोक्तं विशेष्येण तिडा वा यदि वा कृता । विशेषणक्रियानुक्तमप्युक्तं तद्भवेदिति ॥' आनीय गुरुः पूज्यते, आमन्त्र्य ब्राह्मणो भोज्यत इत्यस्योदाहरणम् । पृथ्वी दक्षिणं यज्ञ वा कर्तुं मनो वलत इति तात्पर्यम् । किं वा न परिभवः, न वा ऋतुप्रत्यूहः, न वा यज्ञारम्भः, किं च रघुवंशतपसामीदृशः परिणामो यत्त्वमस्मद्गृहमागतोऽसीति भावः । शुन इव पदमस्येति श्वापदो व्याघ्रः। 'अन्येषामपि दृश्यते' इति दीर्घः । 'तस्येदम्' इत्यणि 'द्वारादीनां च' इत्यैचि शौवापदमिति रूपम् । 'शौवापदो वः' इति पाठे वो युष्माकं कान्तारभाजामित्यन्वयः । 'कान्तारोऽस्त्री महारण्ये विले दुर्गमवमनि' इति मेदिनीकरः । 'विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः । 'सप्तन्ततुर्मखः क्रतुः' इति च । 'विवर्तः परिणामे स्यात्' इति मेदिनीकरः । रामभद्रप्राप्तिरूपस्वकार्यसिद्ध्यर्थ दशरथं स्तोतुमुपक्रमते—जनयतीति । इह 'जनीजृष्' इति मित्संज्ञा । 'मितां ह्रस्वः' इति ह्रस्वः । हे वीर, दिशां पतीनपि दिक्पालानपि । यद्वा दिशां नराणां पतीनृपतीन् । 'वैश्यप्रेप्यनरा दिशः' इति धरणिः । गृहाङ्गनमात्रकुटुम्बिनो गृहाङ्गनमात्रावस्थायिनः । त्वद्भयात्त्वदीयाङ्गनावस्थितत्वात् । त्वयि जनयति सति रिपुः शत्रुरिति वास्तवी वस्तुसिद्धा श्रुतिरेव न श्रवणमेव न । तुशब्दः पुनरर्थे । नोऽस्माकं प्रतिभयं शत्रुप्रभृतित्रासस्तदुन्न
१. 'सप्रणयम्' इति पाठान्तरम्.
For Private and Personal Use Only