________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
काव्यमाला।
शत्रुघ्नः-कृतमङ्गलोपचारो मध्यमाम्बाभत्रने भवतीं प्रतीक्षते । (उपसृत्य लक्ष्मणं प्रणमति ।) - लक्ष्मणः-(सहर्षमालिङ्गय ।) वत्स, दिष्टया दीर्घायुषि त्वयि दीप्यमाने नै वयमेकाकिनमार्यभरतं परित्यज्य गताः ।
रामः-(मुनि प्रति ।) भगवन्, एतौ लङ्काकिष्किन्धयोरधिपती विभीषणसुग्रीवौ भगवन्तं प्रणमतः । - वसिष्ठः-विकर्तनपुलस्त्यकुलकीर्तितोरणमालावलम्बनस्तम्भाविमौ चिरस्य भूयास्ताम् । रामः-(भरतं प्रति ।) वत्स, वन्दस्व महात्मानावेतौ पौलस्त्यसावित्रौ ।
___(भरतशत्रुघ्नविभीषणसुग्रीवा मिथो यथोचितमाचरन्ति ।) वसिष्ठः--(सहर्षम् ।) दिष्टंया चतुर्दशभिः परिवत्सरैः पुनः समुदय. मानं दशरथकुटुम्बमीक्षामहे । (सविमर्शस्मितम् ।)
जेतारं दशकंधरस्य जितवानेवार्जुनं भार्गव
स्तं रामो यदि काकपक्षकधरस्तत्पूरितेयं कथा । ऊर्व कल्पयतस्तु बालचरितात्तत्प्रक्रियागौरवा
दन्येयं कविता तथापि जगतस्तोषाय वर्तिष्यते ॥ १४६॥ (रामं प्रति ।) वत्स, माङ्गलिकलग्नमतिकामति ।
तदिदं रघुसिंहानां सिंहासनमलं कुरु ।
राजन्वन्तः प्रतन्वन्तु मुदमुत्तरकोशलाः ॥ १४७ ॥ गौरवितैगौरवं गतः । तारकादित्वादितच् । भवतीं प्रतीक्षत इत्यत्र श्वश्रूजन इत्यनुषङ्गः। विकर्तनः सूर्यः । जेतारमिति । दशकंधरस्य जेतारं सहस्रार्जुनं भार्गवः परशुरामो जितवान् । तं परशुराम चूडाधरोऽपि बालकोऽपि रामो यदि जितवान् तदा इयं कथा जयकथा पूरिता समाप्ता । परशुरामजयेनैव रावणजयावधारणात् । व्याप्यव्यापकस्य सुतरां व्याप्यत्वात् (व्यापकत्वात् ) । तथापि वालचरितादूवं कल्पयतः कवेरन्येयं कविता तत्प्रक्रियागौरवाज्जगतस्तोषाय वर्तिष्यते । तथा च प्रक्रियागौरवमेव परं नान्यत्किंचित्कवित्वमित्यर्थः । रघुसिंहानां रघुश्रेष्ठानाम् । 'स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुजराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥' इत्यमरः । 'नृपासनं यत्तद्भ
१. 'प्रतिनमति'. २. 'वत्स' इति पुस्तकान्तरे नास्ति. ३. 'न' इति पुस्तकान्तरे नास्ति. ४. 'स्तम्भौ खं खं भाविनौ'. ५. 'मिथो' इति पुस्तकान्तरे नास्ति. ६. 'दृष्ट्वा' ७. 'पुनःपुनः समुदयमानम्'.
For Private and Personal Use Only