________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः
अनर्घराघवम् ।
भरत:
वत्स लक्ष्मण सोत्कण्ठं चिरात्परिरभख माम् ।
श्रद्धालुहॊतुरङ्गानि चन्दनेष्वप्यरोचकी ॥ १४३ ॥ (निर्भर परिरभ्य ) हन्त रघुवंशयशस्तडागयूपदण्डेन लक्ष्मणबाहुना परिक्षिप्यमाणश्चिरेण शीतलीकृतोऽस्मि ।
इन्दोः कलाकलापेन पङ्किक्रमनिवेशिना ।
सर्वदुःखापनोदाय सोदर्याणां भुजाः कृताः ॥ १४४ ॥ शत्रुघ्नः--(रामं प्रति।) आर्य, पादुकाभृत्यानुभृत्यः शत्रुघ्नः प्रणमति ।
रामः-(गाढमालिङ्गय ।) कथमावृत्त्या लक्ष्मणमनुभवामि । (अपवार्य सीतायै दर्शयन् ।)
एतत्तदेव मुखमक्षतचन्द्रबिम्ब
संवावदूकमवलोकय लक्ष्मणस्य । गीर्वाणवारणकरार्गलकर्कशौ मां - तावेव लक्ष्मणभुजौ नु परिष्वजाते ॥ १४५ ॥
(शत्रुघ्नः सीतां प्रणमति ।) सीता-तल्लोकसल्लुद्धरणगोरविदेहिं चरिदेहिं लक्खणसरिसो होहि । वच्छ सत्तुहण, अज्जाजणो कहिं । इह उष्णकरः सूर्यः । निकुरम्बः समूहः । परिरभख आलिङ्ग । भ्रातुरङ्गानि कर्मभूतानि । श्रद्धालुः श्रद्दधानो जनश्चन्दनेष्वरोचकी अनभिलाषी भवति । भ्रातुरङ्गानां चन्दनादप्यधिकसुखप्रदत्वात् । 'अङ्गानाम्' इति पाठे 'कर्तृकर्मणोः कृति' इति षष्टी । इन्दोरिति । कलापः समूहः । सोदर्याणां सहोदराणाम् । पादुकाभृत्यानुभृत्य इति विशेषणादतिविनीतत्वं प्रकटितम् । आवृत्त्या पुनरपीत्यर्थः । अत्र शत्रुघ्नालिङ्गनेन लक्ष्मणालिङ्गनानुभव इवेति भावः । एतदिति । लक्ष्मणस्य तदेवैतन्मुखम् । शत्रुघ्नमुखं लक्ष्मणस्यैवेत्यर्थः । अक्षतचन्द्रबिम्बस्य संपूर्णचन्द्रमण्डलस्य संवावदूकं संवदनशीलम् । सदृश मिति यावत् । गीर्वाणवारणो देवहस्ती ऐरावणः । तस्य कर एवार्गलं कपाटस्य प्रसरणप्रतिबन्धकं लोहकाष्ठादिघटितं दण्डादि 'आगल' इति ख्यातम् । तद्वत्कर्कशौ कठिनौ । नु वितर्के । परिष्वजाते आलिङ्गतः । तेल्लोकेति । 'त्रैलोक्यशल्योद्धरणगौरवितैश्चरितैर्लक्ष्मणसदृशो भव । वत्स शत्रुघ्न, श्वश्रूजनः कुत्र' [इति च्छाया ।) इह
१. 'निर्भरं च'. २. 'दुःखप्रणोदाय'. ३. 'आकृत्या'.
For Private and Personal Use Only