________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
काव्यमाला । रामः-आं जानकि, आम् । इदमेव तल्लक्ष्मणवीरलक्ष्मीखयंवरकौतुकागारम् । इह हि
आनीतद्रोणशैलेन सौमित्रेः शल्यहारिणा ।।
अक्रियन्त जगन्त्येव निःशल्यानि हनूमता ॥ १० ॥ सीता-(स्मृतिमभिनीय सानुरागम् ।) अजउत्त, किक्किन्धेसरकन्धावारधुरंघरो रहुउलकुटुम्बविहुरबन्धू सो कहिं हणूमन्तो । रामः-देवि निमिरीजनन्दिनि,
क्षुण्णे निशाचरपतौ रविबिम्बवर्ती ___ तातो मया दशरथः खयमेव दृष्टः । तस्याज्ञया रघुपुरीं प्रहितः पुरैव
राज्याभिषेकविधिसंभृतये हनूमान् ॥ ११ ॥ (विमानवेगनाटितकेन ।) देवि', प्रणम्यतामयमितो भगवानम्बुराशिः ।
लक्ष्मीरस्य हि यादः कृष्णोरःस्थापि सुभटभुजवसतिः । इन्दुः स च मृडचूडामणिरपि जगतामलंकारः ॥ १२ ॥
पणम् । स्वयंवरे स्वयंवरणे । कौतुकागारं क्रीडागृहम् । द्रोणशैलः पर्वतविशेषः । यत्र विशल्या नाम महौषधिः स्थिता । शल्यं शरादिकम् । निःशल्यान्यव्यथानि । अजउत्तेति । 'आर्यपुत्र, किष्किन्धेश्वरस्कन्धावारधुरंधरो रघुकुलकुटुम्वविधुरबन्धुः स कुत्र हनूमान्' इति च्छाया । इह किष्किन्धेश्वरः सुग्रीवः । धुरंधरो धुराधारणक्षमः । विधुरवन्धुर्दुःखवारकः । क्षुण्ण इति । क्षुण्णे निष्पिटे । मारित इति यावत् । रविविम्बवर्ती आदित्यमण्डलस्थः । तस्य योगयुक्तखात् । तदुक्तम्-'द्वावेतौ पुरुषौ राजन्सूर्यमण्डलभेदिनौ । परिवाड्योगयुक्तश्च रणे चाभिमुखो हतः ॥' इति । रघुपुरीमयोध्याम् । पुरैव पूर्वमेव । 'पुरापि' इति पाठेऽपि स एवार्थः । अव्ययानामने. कार्थत्वात् । यद्वा न केवलं तातो दृष्टः, हनूमानपि प्रहित इति समुच्चयेऽपिः । इतोऽत्र प्रदेशे । लक्ष्मीरिति । हितौ । अस्य समुद्रस्य लक्ष्मीरिन्दुश्च यादो जलजन्तुः । अजहल्लिङ्गतयान्वयः । अपिर्विरोधाभासे । या हि कृष्णवक्षःस्थिता सा कथं सुभटभुजे वसतीति । अथ च जैव भगवती श्रीः संपद्रूपतया सुभटभुजवर्तिनी वृत्तेत्यविरोधः। मृडो हरः । 'गिरीशो गिरिशो मृडः' इत्यमरः । अपिरिहापि विरोधाभासे । जगतां लोकाना
१. 'जन कि'. २. 'देवि पार्थिवि'.
For Private and Personal Use Only