________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम् ।
२२१ तत्पौलस्त्य महामिहोत्रिणमहं त्वामेतदभ्यर्थये ___ सीतामर्पय मुश्च च ऋतुभुजः काराकुटुम्बीकृतान् ॥ ७ ॥ सारणः-(सबहुमानाश्चर्यम् ।) अहह, 'वालिभुजौ' इति ब्रुवता मातामहेन किमपि स्मारितोऽस्मि । आर्य,
किमाचक्षे सेतुक्षितिधरशिरःश्रेणिकषणैः ।। ___ प्रकोष्ठे नीरोम्णः कपिभटभुजस्तम्भनिवहान् । सुमेरोर्मात्सर्यादनतिचिरसंरूढमृदुभिः
शिरोभिर्विन्ध्यो यद्भरमपि न सोढुं परिवृढः ॥ ८॥ (साशङ्कम् ।) ततस्ततः ।
माल्यवान्-ततश्च रोषान्धतौमिस्र मन्जता राक्षसराजेन तथा चेष्टितं यथा विपक्षमप्याश्रितः । नागारमित्रीकृतान्क्रतुभुजो देवान्मुञ्च त्यज । कीदृशं त्वाम् । महाग्निहोत्रिणम् । अनेन परस्त्रीवैमुख्यं प्रकटितम् । ननु मानुषेण ममाभिभवः कर्तुं न पार्यत एवेति रावणवचनमाशङ्कयाह-मानुषीं जातिं मानय पूजय । यतस्त्वया हैहयः सहस्रार्जुनोऽ. भिमुखो दृष्टः । तथा च मानुषेनैव सहस्रार्जुनेन सङ्ग्रामे त्वमभिभूतोऽसि, अतो मानुषविषये गर्वो न विधेय इति भावः । वालिभुजौ च स्मृत्वा ते तव वानरा अवज्ञातुं नसांप्रतम् । न युक्ता इत्यर्थः । इह सांप्रतपदेन युक्तार्थन कर्मणोऽभिधानाद्वानरा इत्यत्र न द्वितीया । यथा-'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इति । वानरेण त्वं कक्षायां क्षिप्तोऽसि, अतो वानरेष्वपि नावज्ञा युक्तेति भावः । 'कारा स्याद्वन्धनालये' इत्यमरः । 'युक्ते द्वे सांप्रतं स्थाने' इत्यपि । स्मारितोऽस्मि । वानरबाहुबलमिति शेषः। किमाचक्षे इति । हे आर्य, कपिभटानां वानरयोधानां भुजस्तम्भसमूहान्किमाचक्षे किं ब्रवीमि । अपि तु वक्तुं न शक्नोमीति भावः । कीदृशान् । सेत्वर्थे क्षितिधरशिरःश्रे. णिकषणैः पर्वतमस्तकपतिघर्षणैः । प्रकोष्ठे कफोणाधःप्रदेशे । नीरोम्णो लोमशून्यान् । यद्भरं बाहुसमूहभरं विन्ध्योऽपि शिरोभिः सोढुं न परिवृढो न समर्थः । सुमेरोर्मात्सयादुच्चैस्त्वस्यासदनात् । अनतिचिरमतिशीघ्रं संरूद्वैः प्रवृद्धः । अत एव मृदुभिः । अत एव भरं सोढुं न शक्तोऽभवदित्यर्थः । सुमेरुजिगीषया विन्ध्यो वर्धितः-इति कथा । रोषान्धतामिस्र रोषरूपगाढान्धकारे । 'रोषान्धतमसे' इति पाठेऽप्ययमेवार्थः । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । भवतैव सह । मानतोऽभिमानाल्लोको निवर्तिष्यते । मानं न करिष्यतीत्यर्थः । वैधये वैपरीत्यम् । नाश इति यावत् । तत्र दृष्टान्तेन निदर्शनेन ।
१. 'किमपि' इति पुस्तकान्तरे नास्ति. २. 'तमसि'.
For Private and Personal Use Only