________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
काव्यमाला। गुहः-(दृष्ट्वा । सहर्षम् ।) कुमार कुमार, अलमावेगेन । नन्वयं सुग्रीवो रामभद्रगुणानुरागेण वालिमत्सरेण च द्विगुणितोत्साहः समरसीमानमापतति ।
लक्ष्मणः-दिष्टया स एष वैकर्तनिः । अथापरः कः ।
गुहः--अयमपि किष्किन्धेश्वरस्कन्धावारैकवीरो भगवतः प्रभञ्जनस्य पारस्त्रैणेयः पुत्रो हनूमान् । लक्ष्मणः—(सहर्षम् ।) कथमयमसावाञ्जनेयः । अयं हि
ब्रह्मशापपरिक्लिष्टखवीर्यज्ञानयन्त्रितः ।
___ अन्यैरपि भुवं वीरैः कीर्यमाणामुपेक्षते ॥ ५१ ॥ नियतमनेन सख्या हृदयशल्यमस्माकमुद्धरिष्यते । इदं तु वर्तमानमेकतुलायुद्धमार्यस्य । जयलक्ष्मीरिग्रहयौतके यशसि वयमयं वो सुग्रीवो वा न केचिदंशाधिकारिणः । गुहः-(ससंभ्रमम् ।) कुमार, पश्य पश्य ।
सप्त तालानयं भित्त्वा वालिप्रहरणीकृतान् ।
हत्वा च वालिनं बाणो रामतूणीरमाँगतः ॥ ५२ ॥ अहह ।
प्राणैः समं कनकपुष्करकण्ठमाला
सूत्रेण दाशरथये विहितातिथेयः । अनुप्लवतेऽनुगच्छति । विकर्तनः सूर्यस्तत्पुत्रो वैकर्तनिः सुग्रीवः । स्कन्धावारः सेना । प्रभञ्जनस्य वायोः । पारस्त्रैणेयः परस्त्रीपुत्रः । अञ्जनापुत्रः । 'स्त्रीभ्यो ढक्' । खवीर्यस्य निजबलस्य ज्ञाने यन्त्रितो विस्मारितः । पुरा किल ब्रह्मा हनूमतोऽतिशयपराक्रमं वीक्ष्यानेन पराक्रमेण क्रोधान्धतयानेन त्रैलोक्यं चेन्नाशनीयं तर्हि सर्वमिदमाकुलं स्यादिति हृदि निधाय भवतः पराक्रमज्ञानं स्वयं मा भूदिति हनूमन्तमभिशशाप-इति पुराणम् । कीर्यमाणां व्याप्ताम् । सख्या मित्रेण, द्वितीयेन बा । 'सखा मित्रसहाययोः' इति विश्वः। एकतुलायुद्धं द्वाभ्यामेव सङ्ग्रामः । परिग्रहो विवाहः तत्र यौतकत्वेन यश एव लब्धम् । अंशो भागः । 'मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत्' इति वाक्येन वैवाहिकधने भागानहत्वादिति भावः । प्रहरणमस्त्रम् । प्राणैरिति । स कपिचक्रवर्ती वानरराजो वाली वीरशयने रणाङ्गणे शेते । मृत इत्यर्थः प्रकरणात् । प्राणैः समं सुवर्णपद्मपुष्पकण्ठ
१. 'कुमार' इति पुस्तकान्तरे एकवारमेव. २. 'रामदेवगुणानुरोधेन'. ३. 'यूत-'. ४. 'पाणिपरिग्रह'. ५. 'वा' इति पुस्तकान्तरे नास्ति. ६. 'आगमतू'.
For Private and Personal Use Only