________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः] अनघराघवम् ।
२१३ रामः-(विहस्य । धनुरास्फालयन् ।) अहह । खर्विघ्नप्रसरेण रावणिरसौ यदुर्यशोभागिनं
चक्रे गौतमशापयन्त्रितभुजस्थामानमाखण्डलम् । कक्षागर्तकुलीरतां गमयता वीर त्वया रावणं
तत्संमृष्टमहो विशल्यकरणी जागर्ति सत्पुत्रता ।। ४९॥ सोऽपि त्वमस्माकमधुना दैवेन शरव्यीकृतोऽसि । वाली—(सरोषम् ।) आः काकुत्स्थ, अस्मद्दोर्मूलकूलंकषविषमभुजग्रन्थिभङ्गप्रसङ्ग
क्रोशल्लकेशदत्तत्रिभुवनविजयख्यातिसर्वखदायः । यः कश्चिद्विक्रमोऽयं स खलु करचुलिक्षत्रसाधारणत्वा
दन्तर्मन्दायमानो विजितभृगुपतिं त्वामजित्वा दुनोति ॥५०॥ तदेहि । विमर्दक्षमा भुवमवतरावः ।
___ (इति निष्क्रान्तौ ) गुहः-(स्वगतम् ।) दिष्टया फलितमस्माकं मनोरथेन ।
लक्ष्मणः-(नेपथ्याभिमुखमवलोक्य ।) इदमन्यतो वानरद्वयमार्यस्य पाठिणग्राहमिव संभ्रमादेनुप्लवते । तदहमपि धनुरारोपयामि । कुशी' इति विश्वः । तलं चपेटः । तथा च स्वाङ्गेन शस्त्रीति भावः । अहहेत्सद्भुते । खरित्यादि । असौ रावणिरिन्द्रजित् आखण्डलमिन्द्रं वगै विघ्नप्रसरेण यदुर्यशोभागिनं चक्रे तज्जयं कृतवान् । 'शस्त्रौघप्रसरेण' इति पाठे शस्त्रसमूहप्रसारेणेत्यर्थः । स्थाम बलम् । तव भुजबलं सङ्ग्रामे मा भूयादिति गौतमपत्नीपरिग्रहपर इन्द्रो गौतमेनाभिशप्तः-इति पुराणम् । हे वीर, त्वया तत्संमृष्टं लुप्तम् । प्रोञ्छितमित्यर्थः । त्वया कीदृशेन । रावणं कक्षागर्तस्य कक्षाविवरस्य कुलीरतां कर्कटत्वं गमयता । विशल्यं क्रियते यया सा विशल्यकरणी दुःखोपशामिका । सत्पुत्रता जागर्ति । तथा चेन्द्रजिता इन्द्रो जितः, त्वया चेन्द्रपुत्रेण वालिना इन्द्रजित्पिता रावणो जित इति पितृवैरनिर्यातनमेव सत्पुत्रता । दोर्मूलमेव कूलं तत्कषतीति । 'सर्वकूलाभ्रकरीषेषु कषः' इति खच् । खित्वान्मुम् । विषमो महान् । प्रसङ्गो विधानम् । ख्यातिः प्रसिद्धिः, कीर्तिर्वा । दायो दानम् । करचुलिः सहस्रार्जुनस्यादिपुरुषः । दुनोति परितप्यते (परितापयति) । पाठिणग्राहं पाणिग्राहकम् । संभ्रमस्त्वरा । रामत्राणप्रतीकाराशया संभ्रम इति भावः ।
१. 'निजस्थामानम्'. २. 'कक्षागर्भ-'. ३. 'शरव्यम्'. ४. 'अस्मन्मनोरथेन'. ५. 'अनुवर्तते'.
अन० १९.
For Private and Personal Use Only