________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः] अनर्घराषवम् ।
२११ देवः स त्वामसूत द्विषदुपमृदितखर्वधूवेणिबन्ध
प्रेक्षाधारालवैरप्रसृमरसमरोड्डामरौजा बिडोजाः । यो विद्धोत्खातबाणवणनिवहनिभं निर्भरोद्भङ्गुरभ्रू
भीमः श्रीमद्भिर रुदवहत रुषा रज्यदक्ष्णां सहस्रम् ॥ ४३ ॥ अपि च । बन्दीकृत्य जगद्विजित्वरभुजस्तम्भौघदुःसंचरं
रक्षोराजमपि त्वया विदधता संध्यासमाधिव्रतम् । प्रत्यक्षीकृतकार्तवीर्यचरितामुन्मुच्य रेवां समं
सर्वाभिमहिषीभिरम्बुनिधयो विश्वेऽपि विस्मापिताः ॥ ४४ ॥ वाली-(विहस्य ।) चिराय रात्रिंचरवीरचक्रमाराङ्कवैज्ञानिक पश्यतस्त्वाम् । सुधासधर्माणमिमां च वाचं न शृण्वतस्तृप्यति मानसं मे ॥ ४५॥
मुखेन निन्दामाह-देव इत्यादि । बिडौजा इन्द्रो देवस्त्वामसूत । कीदृशः । द्विपद्भिः शत्रुभिरुपमृदितो यः स्वर्वधूवेणिवन्धस्तस्य प्रेक्षया दर्शनेन धारालवमविरलं गद्वैरं तेन प्रसृमरं प्रसारि समरे सङ्ग्रामे उडामरं निरगलमोजस्तेजो यस्य सः य इन्द्रः । रुपा क्रोधेन । रज्यद्रक्तीभवत् । ‘रज रागे' दिवादिः । अक्ष्णां सहस्रमुवहत धारयति स्म । कीदृशम्।प्रथमं विद्धा अनन्तरमुत्खाता उत्पाटिता ये वाणास्तेषां क्षतसमूहतुल्यमित्यर्थः। निर्भरमत्यर्थेनोद्भङ्गुरा कुटिला या भ्रूस्तया भीमः। बन्दीकृत्येति । रेवां नदीविशेषाम् । उन्मुच्य त्यक्त्वा । त्वया वालिना । सर्वाभिमहिषीभिर्महानदीभिः समम् । तत्र संध्यावन्दनविधानात् । विश्वेऽपि सर्वेऽप्यम्बुनिधयः समुद्रा विस्मापिता विस्मयं प्रापिताः । 'कृताभिषेका महिषी' इत्यमरः । प्रकृते च समुद्रस्य नद्य एव महिष्यः । रेवां कीदृशीम् । प्रत्यक्षीकृतं दृष्टं कार्तवीर्यस्य सहस्रार्जुनस्य चरितं रावणवन्धनरूपं यया ताम् । रावणवन्धनं रेवायां वृत्तम् । तथा च रेवया कार्तवीर्यपराक्रमो दृष्टः। अतस्तस्या नाश्चर्यमभूदिति भावः । त्वया कीदृशेन । रक्षोराज रावणमपि बन्दीकृत्य संध्यासमाधिवतं संध्योपासनं विदधता कुर्वता। विजित्वरो जयशील: । पूर्ववत्वरप् । ओघः समूहः । दु:संचरं दुर्धर्षम् । दुश्चेष्टमिति यावत् । विस्मापिता इति 'नित्यं स्मयतेः' इत्यात्वम् । सझामाय राममभिमुखीकर्तुमाह---चिरायेति । चक्रं समूहः। मारणं मारः । तस्याङ्कश्चिह्न यत्र स माराको युद्धं संग्रहारो वा । तत्र वैज्ञानिक कुशल हे । तव सुधासधर्माण
For Private and Personal Use Only