________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
काव्यमाला। लक्ष्मण:-अथ किम् । वाली—(सहर्षोल्लासम् । किंचिदुच्चैः ।) भो रामभद्र, एष त्रैवर्ण्यमात्रव्यवसितजगतो भार्गवस्यास्त्रगर्भा__ दाकृष्टक्षत्रजातिस्त्वमसि पथि गिरामद्य नः सुप्रभातम् । कक्षोष्मखेदसद्यःशमितदशमुखास्फोटकण्डूविकारो __ वीरश्राद्धो भुजस्त्वां परिचरतु चिरं चक्षुषी नन्दतां च ॥ ४० ॥ रामः-(दृष्ट्वा सहर्षम् ।) स एष महाबाहुः संक्रन्दनसूनुः ।
येन वीरेण गुप्तायां किष्किन्धायामियं मही ।
रावणाभिभवक्लान्ता शश्वदुच्छासमश्नुते ॥ ४१ ।। (इति परिकामति ।)
लक्ष्मणः-महाभाग, अयमार्यः । इत इतो भवान् । . वाली—(उपसृत्य ।) रामभद्र,
सुरासुराणामसुभिर्दीव्यतां सभिको मुनिः ।
अद्य मे नारदस्तुष्टो येनासि भुजगोचरः ।। ४२ ।। रामः-महावीर, किमुच्यते । मूर्धाभिषिक्तोऽसि समरशौण्डानाम् । तथा हि । इत्यत्रापिः प्रश्ने, वितर्के वा । अन्तेवासी शिष्यः। ब्राह्मणविटशूद्रास्त्रिवर्णी तस्या भावस्वर्ण्यम् । तन्मात्रं व्यवसितं कृतं जगद्येन । सकलक्षत्रियविनाशात् । तादृशस्य । गर्भो मध्यम् । नोऽस्माकं गिरां पथि अद्य सुप्रभातमिदानी कुशलम् । भवद्विषयिणी मम वाणी कुशलिनीति भावः । ऊष्मणः स्वेद ऊष्मस्वेदो घर्मजलम् । आस्फोटो युद्धम् । श्राद्धः श्रद्धायुक्तः । 'प्रज्ञाश्रद्धा वृत्तिभ्यो णः' । वीरे श्राद्धो वीरश्राद्धः । त्वां परिचरतु । त्वयासह युद्धमाचरत्वित्यर्थः। नन्दतां हर्ष भजेताम् । येनेत्यादि । क्लान्ता क्लिष्टा। शश्वदत्यर्थम् । उच्छासमुच्चतामश्नुते प्राप्नोति । महाभागेति । 'भागो भाग्यैकदेशयोः' इति विश्वः । सङ्ग्रामाय भूमिमारचयति-सुरासुराणामिति । येन हेतुना त्वं भुजगोचरोऽसि, अतो मे नारदो मुनिविशेषस्तुष्टः । तस्य कलहप्रियत्वात् । कीदृशः । असुभिः प्राणैर्दीव्यतां क्रीडतां सुरासुराणां सभिको द्यूतकारकः । 'सहिआर' इति ख्यातः । वालिनं सङ्ग्रामाभिमुखं कर्तुं तत्प्रशंसामाह-महावीरेति । मूर्धाभिषिक्तो राजा। समरे शौण्डानां ख्यातानाम् । 'शौण्डो मत्तेऽपि विख्याते' इति मेदिनीकरः । अधुना प्रशंसा१. 'वीरश्रद्धः'. २. 'किंचित्'. ३. 'शौण्डोऽसि'.
For Private and Personal Use Only