________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
अनर्घराघवम् । तेन, कलहकन्दलनाम्ना कलहाकरतया प्रसिद्धन, कुत्सितं शीलं कुशीलं तद्योगिना कुशीलवेन रावणेन । वप्रकरणे 'अन्येभ्योऽपि दृश्यते' इति मत्वर्थीयो वः । कमप्यनिर्वचनीयम्, प्रबन्धं कपटं परवञ्चनोपायम् , यद्वा प्रकृष्टो बन्धः प्रबन्ध इन्द्रादीनां यत्र तत्प्रबन्धं युद्धादिविन्यासम् , अभिनयताभिव्यञ्जयता । कुर्वतेति यावत् । कीदृशम् । रौद्रं तीव्रता, बीभत्सं विकृतरूपता, भयानकं युद्धादौ भयंकरत्वम् , अद्भुतमाश्चर्यकरत्वम् , एतैर्भूयिष्ठं बहुलम् । यद्वा कस्यचिन्मारणादिना रौद्रः, कस्यचिदलिदानादिना बीभत्सः, कस्यचिन्मायादिना भयानकः, कस्यचिदद्भुतकर्मणा कैलासोत्पाटनादिनाद्भुतो रसः, एभिर्भूयिष्ठं बहुलम् । नित्यं बहुशः, अयं लोको भुवनम् , उद्वेजितः किल । किलागमे । 'लोकस्तु भुवने जने' इत्यमरः । एतावतोद्वेगलक्षणो बिन्दुरुत्पन्नः। यदाह भरतः-'प्रयोजनानां विच्छेदे फलविच्छेदकारणम् । फलं यावच्च नोदेति स बिन्दुरिति शक्य(कथ्यते ॥ तैलबिन्दुयेथा तोयं खशक्त्या व्याप्य तिष्ठति । काव्याङ्गानि तथा बिन्दुः संदर्य मुखतां व्रजेत् ॥' इति । यथा वेणीसंहारे-'लाक्षागृहानल-' इत्यादिनापमानलक्षणो बिन्दुः । उद्वेगश्चायं सप्तखङ्केषु बोद्धव्यः । यथा 'अपि कथमसौ' इति प्रथमाङ्के । 'अलमिष्ट्वा मखान्' इति द्वितीयाङ्के । 'कन्यामयोनिजन्मानम्' इति तृतीयाङ्कादाबूह्यमिति । अभिमतेति । अभिमतो रसो वीरो भावश्चेष्टा तद्योगिनः प्रेक्षणकस्येति प्रेङ्खन्ति गच्छन्ति वीरा अस्मिन्निति प्रेङ्खणं युद्धम् । अधिकरणे ल्युट् । प्रयोगानुज्ञया कृत्यनुमत्या कृतिस्मृल्या वा । नाट्यस्य वेदो धनुर्वेदः । 'नट अवस्कन्दने' चौरादिकण्यन्तादवस्कन्दनार्थत्वाद्धातोः 'अचो यत्' इति यत् । हिंसार्थता च 'जासिनिप्रहणनाटकाथपिषां हिंसायाम्' इत्यत्र हिंसायां वृत्तेः। तस्योपाध्यायोऽध्यापकः कौशिक एव । स च क्षत्रियजातित्वात्संस्कारविशेषाद्राह्मणत्वाच द्वैरूप्यावगमाद्बहुरूपः । एतदेव वक्ष्यति–'यः क्षत्रदेहम्' इत्यादिना । तस्यान्तेवासी शिष्यः, मध्यदेशीयोऽयोध्याप्रभवः, सुचरितः सुष्टु चरितं व्यापारो यस्य सः, नाम प्र. सिद्धः, 'नाम प्राकाश्यसंभाव्यप्रसिद्धिषु निगद्यते' इति विश्वः । बिभर्ति पुष्णाति भूमिमिति भरतो राजा दशरथः । 'भृञादिभ्योऽतच्' इत्यौणादिकोऽतच्प्रत्ययः । तस्य पुत्रः। यद्वा भरतः पुत्रः कनिष्ठो यस्य स रामः । 'कनिष्ठेऽपि सुते पुत्रः' इति विश्वः । पुत्र. वाचकपर्यायशब्दाः कनिष्ठवाचका अपि भवन्ति । यथा किरातार्जुनीये-'अनुस्मृताखण्डलसूनुविक्रमः' इति ।
सदस्यानां देवानामृत्विजां वा, प्रीतिनाम मम रङ्गोपजीविनो रणोपजीविनो योधस्य क्षत्रियस्य वा या प्रिया सीता च तस्या अपहर्तारं रावणं जित्वा प्रीतिं सीतां चानयामि । एतेन सीताहरणादारभ्य रावणवधपर्यन्तं सूचितम् । 'सदस्या विधिदर्शिनः' इत्यमरः । 'रङ्गो नृत्ये रणे रागे' इति धरणिः । एतावता प्रीतिसीतापहारलक्षणं बीजम् । यदाह भरतः-'स्वल्पमानं समुद्दिष्टं बहुधा यद्विसर्पति । फलावसानपर्यन्तं तद्बीजमिति कीर्तितम्' इति । यथा वेणीसंहारे—'निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्टे ॥' इति । वैदेशिको विः पक्षी तस्य देशो वनं तत्र स्थाता वैदेशिको वनवासी।अध्यात्मादित्वाहा ।
For Private and Personal Use Only